विद्युति सत्यां स्वप्नपर्या(र्य)न्तां रात्रिम् । इदं च सायंसंध्यायाम् । उषः समीपमुपव्युषं तत्र विद्युति सत्यामपरेद्युः सप्रदोषमहरनध्यायः । प्रदोषादूर्ध्वमध्येयम् । यावता कालेन शम्याप्रासादर्वागवस्थितां गां कृष्णामिति वा रोहिणीमिति वा विजानीयात्तस्मिन्काल उपव्युषे वा विद्योतमान इत्यन्वयः । रात्रेस्तृतीयभागोऽपररात्रस्तस्य त्रेधा विभक्तस्याऽऽद्यांशो महारात्रः । तदन्त्यो दह्रः । तस्मिन्दह्रेऽपररात्रे स्तनयित्नुना मेघगर्जननिमित्तेन सप्रदोषमहरनध्यायः, अर्धरात्रादूर्ध्वमनन्तर[१]रात्रावधिरित्येक आचार्या मन्यन्ते । स्वपक्षस्तु दह्र एव । इदं च वर्षर्तौ ज्ञेयमिति व्याख्यातमुज्ज्वलाकृता ।
हारीतस्तु--
"सायंसंध्यास्तनिते रात्रिः प्रातःसंध्यास्तनितेऽहोरात्रम्" इत्याह । |
विद्युति विशेषमाह गौतमः--
"विद्युति नक्तं चापररात्रात्रिभागादिप्रवृत्तौ सर्वम्" इति । |
पूर्वरात्रौ विद्युत्यपररात्रावधिरनध्यायः । दिनतृतीयांशोत्तरं तस्यां सत्यां रात्रिसमाप्तिपर्यन्तम् । अर्धरात्रे मध्ययामद्वय इति विज्ञानेश्वरः । मध्यदण्डचतुष्टय इति निर्णयामृतः । एतद्वर्षातिरिक्तविषयम् । वर्षासु तु तात्कालिक इति व्यवस्था बोध्या ।
धर्मसूत्रे--
"छर्दयित्वा स्वप्नपर्यन्तम्" इति । |
छर्दयित्वा वमनं कृत्वा स्वप्नपर्यन्तं नाधीयीतेति व्याख्यातमुज्ज्वलाकृता ।
अत्राऽऽपस्तम्बेन विशेष उक्तः--
"छर्दयित्वा स्वप्नान्ते घृतं वा प्राश्य" इति । |
विष्णुः-"न वादित्रशब्दे न शूद्रपतितयोः समीपे न देवतायतनश्मशानचतुष्पथरथ्यासु नोदकान्ते न पीठोपहितपादो न हस्त्यश्वोष्ट्रनौगोयानेषु न वान्तो न विर(रि)क्तो नाजीर्णी न पञ्चनखान्तरागमने" इति ।
पीठोपहितपादः पीठोपरिस्थापितपादतलः । यानेष्वित्यत्राऽऽसीन इति शेषः । वान्तः कृतवमनः । विर(रि)क्तः कृतविरेकः । अजीर्णी भुक्तपाकपर्यन्तम् । पञ्चनखाः श्वादयः ।
मनुः--
"शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । |
प्रौढपादः पादोपरिपादतलः । आसनारूढपादो वेति हरदत्तः ।
- ↑ ख. घ. ङ्ग. न्तरं रा ।