पापेन युक्तो भवेदित्युत्तरार्धार्थः । कामत इत्युक्त्याऽकामतोऽधिकाहरणे न दोषः ।
- धर्मसूत्रे--
"तत्समाहृत्योपनिधाय गुरवे प्रब्रूयाद्भैक्षमिदं भो |
तद्भैक्षं गुरुसमीपमाहृत्य गुरुसमीप एव संस्थाप्य तस्मै प्रब्रूयाद्भैक्षमिदं भो इति । ततस्तेन गुरुणा प्रदिष्टं भोजनायाभ्यनुज्ञातमन्नं भुञ्जीतेति व्याख्यातमुज्ज्वलाकृता ।
- तथा--
"विप्रवासे गुरोराचार्यकुलायैतैर्विप्रवासेऽन्येभ्योऽपि |
यदि गुरुर्विप्रोषितोऽसंनिहितः स्यात्तत आचार्यकुलाय, आचार्यस्य यत्कुलं भार्यापुत्रादि तस्मै प्रब्रूयाद्भैक्षमिदं भो इति तेन प्रदिष्टं भुञ्जीत । तैः सकुल्यैः सह गुरोर्विप्रवासेऽन्येभ्योऽपि श्रोत्रियेभ्यः प्रब्रूयात् । तैः प्रदिष्टं भुञ्जीतेतिवचनविपरिणामेनान्वयः ।
गौतमोऽप्याह--
"असंनिधौ तद्भार्यापुत्रसब्रह्मचारिभ्यः" इति । |
आत्मैव प्रयोजनं यस्य स आत्मप्रयोजनः । एवंभूतो भिक्षां न चरेत् । केवलमात्मार्थं भिक्षां न चरेदित्यर्थः । आत्मप्रयोजनपदं यदा श्रोत्रिया अपि न लभ्यन्ते तदा प्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीतेति वक्ष्यमाणो विधिर्यथा स्यादित्येतदर्थम् । प्रोषितः शिष्य आचार्यप्रयोजनः स्वप्रयोजनो वाऽऽचार्यकुलश्रोत्रियाभावे भिक्षितादन्नात्किंचिदादायाग्नौ प्रक्षिप्य भुञ्जीतेत्यर्थः ।
- तथा--
"भुक्त्वा स्वयममत्रं प्रक्षालयेन्न चोच्छिष्टं कुर्यादशक्तौ भूमौ |
अमत्रं भोजनपात्रम् । भुक्त्वेति संनिधानाद्भोजनपात्रं स्वयमेव प्रक्षालयेत् । भिक्षापात्रस्य त्वन्येनापि प्रक्षालने दोषो न । उभयोरपि पात्रयोर्ग्रहणमित्यन्ये । यावच्छक्नोति भोक्तुं तावदेव भोजनपात्रे कृत्वा भुञ्जीत । भोजने प्रवृत्तो यदि भोक्तुं न शक्नुयात्तदा तदन्नं भूमौ निखनेत् । अथवाऽप्सु प्रवेशयेत्प्रक्षिपेत् । आर्यस्त्रैवर्णिकस्तस्मा अनुपनीताय पर्यवदध्यात् । सर्वमेकस्मिन्पात्रेऽवधाय तत्समीपे भूमौ स्थापयेत् । अन्तर्धानमन्तर्धिः सोऽस्यास्तीत्यन्तर्धी । व्रीह्यादित्वादिनिः । अन्तर्धी दासः । अन्तर्हितं हि तस्य शूद्रत्वम् । प्रकरणात्स आचार्यस्य । आचार्यदासाय शूद्राय वा पर्यवदध्यात्प्रयच्छेदित्यर्थः ।