अत्रैकान्नाशित्वनिषेधमाह याज्ञवल्क्यः--
"ब्रह्मचर्ये स्थितो नैकमन्नमद्यादनापदि" इति । |
ब्रह्मचर्यमष्टाङ्गमैथुनत्यागः ।
तान्याह दक्षः--
"ब्रह्मचर्यं सदा रक्षेदष्टधालक्षणं पृथक् । |
नष्टमित्यत्र भवतीति शेषः।
न ध्यातव्यं न वक्तव्यं न श्रोतव्यं कथंचन । |
अभिलाषपूर्वकस्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिबाह्यचेष्टा । गुह्यभाषणं संभोगार्थं रहोमन्त्रणम् । संकल्पो मानसं कर्म । अध्यवसायः संभोगनिश्चय इति । एकमेकस्वामिकम् ।
स्मृत्यन्तरे भिक्षाशने विशेष उक्तः--
"पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन्" इति । |
पूजनं प्रणामरूपम् । कुत्रचित्प्रणमेदशनं नित्यमित्येव पाठः । अकुत्सयन्नगर्हयन् । नित्यमित्यनेनैतस्य सार्वत्रिकत्वं सूच्यते ।
धर्मसूत्रे--
"अष्टौ ग्रासा मुनेर्भ[१]क्षः षोडशारण्यवासिनः । |
मुनेः संन्यासिनो भ[२]क्षोऽष्टौ ग्रासाः । अरण्यवासी वानप्रस्थस्तस्य षोडश । द्वात्रिंशद्गृहस्थस्य । ब्रह्मचारिणो विद्यार्थस्य नैष्ठिकस्य च ग्रासनियमो नास्तीत्यर्थः ।
अन्यदपि तत्रैव--
"आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः । |
आहिताग्नेरपि गृहस्थत्वेन पूर्वश्लोकेन प्राप्तस्य ग्रासनियमस्य कालयो