पूयति पुनाति । क्वचित्तथैव पाठः ।
अविशेषेण सजातीयेष्वेव भिक्षाचरणं व्यासेनोक्तं, तत्र विशेषमाह मनुः--
"वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । |
ये वेदैर्वेदाभ्यां वेदेन वा । एवं यज्ञैश्च हीना ये न भवन्ति । अथ च स्वेषु वर्णाश्रमविहितकर्मसु प्रशस्ताश्च भवन्ति तेषां गृहेभ्यः प्रयतो नियमवान् , ब्रह्म वेदस्तदर्थं व्रतं चरतीति ब्रह्मचारी, अन्वहं प्रत्यहं भैक्षमाहरेदित्यर्थः । भैक्षमित्यत्र समूहार्थे 'भिक्षादिभ्योऽण्' इत्यण्प्रत्ययः ।
क्वचिद्भिक्षानिषेधमाह स एव--
"गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । |
गुरोः कुले । गृह इति केचित् ।
यत्तु तेनैवोक्तं--
"मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । |
इति तदुपनयनाङ्गभिक्षापरमिति । प्रथमवाशब्दोऽवधारणार्थः । मात्रादयः शब्दाः प्रसिद्धार्थाः । निजा सोदर्या । अवमानोऽवज्ञानं न दीयत इति प्रत्याख्यानं या न करोति तामपि भिक्षेतेत्यर्थः ।
तथा चाऽऽश्वलायनः--
"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा" इति । |
अन्यत्रालाभे गुर्वादिष्वपि भिक्षितव्यमित्याह गौतमः--
"आचार्यज्ञातिगुरुष्वलाभादन्यत्र" इति । |
आचार्यज्ञातिगुरुष्वपि भिक्षितव्यमन्यत्र भैक्षालाभ इत्यर्थः ।
- यमः--
"आहारमात्रादधिकं न क्वचिद्भैक्षमाहरेत् । |
यः कामत इच्छातोऽधिकं भोजनपर्याप्तितोऽधिकं यद्याहरेत्तदा स दोषेण