पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[ब्रह्मचारिधर्माः]
२८७
संस्काररत्नमाला ।

बौधायनधर्मसूत्रे--

 "ब्राह्मणो वै ब्रह्मचर्यमुपायंश्चतुर्धा तानि प्रविशन्त्यग्निपादं मृत्युपादमाचार्यपादमात्मन्येवास्य चतुर्थः पादः परिशिष्यते स यदग्नौ समिधमादधाति य एवास्याग्नौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदात्मानं दरिद्रीकृत्य भिक्षुर्भूत्वा भिक्षन्ब्रह्मचर्यं चरति य एवास्य मृत्यौ पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यदाचार्यवचः करोति य एवास्याऽऽचार्ये पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशत्यथ यत्स्वाध्यायमधीते य एवास्याऽऽत्मनि पादस्तमेव तेन परिक्रीणाति तं संस्कृत्याऽऽत्मन्धत्ते स एनमाविशति" इति ।

अन्यच्चात्रैव--

 "स यदन्यो भिक्षितव्यां न विन्देतापि स्वामेवाऽऽचार्यजायां भिक्षेताथो स्वां मातरं नैन सप्तम्यभिक्षितादियाद्भैक्षस्यानाचरणे दोषः पावकस्यासमिन्धने सप्तरात्रमकृत्वैतदवकीर्णिव्रतं चरेत् । तमेवं विद्वांसमेवं चरन्तं सर्वे वेदा आविशन्ति यथा ह वा अग्निः समिद्धो रोचत एव ह वा एष स्नात्वा रोचते य एवं विद्वान्ब्रह्मचर्यं चरतीति हि ब्राह्मणमिति हि ब्राह्मणम्" इति ।

व्यासः--

"ब्राह्मणक्षत्रियविशश्चरेयुर्भैक्षमन्वहम् ।
सजातीयगृहेष्वेव सार्ववर्णिकमेव वा" इति ॥

भविष्ये--

"सर्वं वाऽपि चरेद्ग्रामं पूर्वोक्तानामसंभवे ।
अन्त्यवर्जं महाबाहो इत्याह भगवान्विभुः" इति ॥

अन्त्यः शूद्रः ।

 धर्मसूत्रे--

सायंप्रातरमत्रेण भिक्षाचर्यं चरेद्भिक्षमाणोऽन्यत्रापपा-त्रेभ्योऽभिशस्ताच्च" इति ।

 अमत्रेण पात्रेण । अपगतानि पाकाद्यर्थानि पात्राणि चातुर्वर्ण्यैः सह तेऽपपात्राः प्रतिलोमरजकादयः । अभिशस्तः पतितः । एतेभ्योऽन्यत्र भिक्षाचर्यं चरेदित्यर्थः ।

 सार्ववर्णिकसर्वग्रामपक्षयोरपि शूद्रात्पक्वमन्नं नैव ग्राह्यं, तदाहाङ्गिराः--

"आममेवाऽऽददीतास्मादवृत्तावेकरात्रकम् ।