अथर्ववेदः/काण्डं २०/सूक्तम् १२८
← सूक्तं २०.१२७ | अथर्ववेदः - काण्डं २० सूक्तं २०.१२८ कुन्तापसूक्तानि |
सूक्तं २०.१२९ → |
यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।
सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥
यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।
ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥
यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।
तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥
यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।
धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥
ये च देवा अयजन्ताथो ये च पराददिः ।
सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥
योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।
अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥
य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।
सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥
प्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।
अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥
सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।
सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥
परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।
अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥
वावाता च महिषी स्वस्त्या च युधिं गमः ।
श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥
यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।
विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥
त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।
त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥
यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।
इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥
पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।
स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥
ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।
पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥
२०.१२८.१६
युक्त्वा श्वेता औच्चैःश्रवसं हर्योर्युञ्जन्ति दक्षिणम् ।
पूर्वतमं स देवानां बिभ्रदिन्द्रं महीयते ॥१६॥ (पाठभेदः)
भाष्यम्
२०.१२८.१५
पृष्ठं धावन्तं हर्योरौच्चैःश्रवसमब्रुवन् ।
स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥
'हर्योः' इन्द्रस्य प्रसिद्धयोः भास्वराश्वयोः, सत्यज्योतिषः अश्वयोः 'पृष्ठं' पृष्ठे, अनुपदं 'धावन्तं' वेगेन प्रयान्तम् ‘औच्चैःश्रवसम्' उच्चभूमिकानां शब्दानां श्रवणस्य शक्त्या सम्पन्नम, श्रुति (अन्तःश्रवण) शक्तिस्वरूपमश्वम् 'अब्रुवन्' अवोचन देवा इति शेषः, 'अश्व' हे अश्व ! 'स्वस्ति जैत्राय' देवविरोधिशक्तिषु ससुखं विजयलाभाय 'सुस्रजम्' सु सुष्ठु शोभनं वा सृजतीति तम्, सुपूर्वकात् सृजतेः पचाद्यच् । ‘सृजिदृशोर्झल्यमकिति' (पा० ६.१.५८) इति सूत्रेण झलादौ अकिति प्रत्यये विधीयमानोऽमागमश्छन्दसि व्यत्ययेन अझल्यपि भवति । शौभनसृष्टिकर्तारम् ‘इन्द्रम्' 'आ वह' अत्र आनय प्रापय वा । .........
अपि च हरी इन्द्रस्य वाजिनौ इति विश्रुतौ । इन्द्रियमपि इन्द्रस्येदम् यद्वा इन्द्रस्य लिङ्गम् इति व्युत्पत्त्या इन्द्राश्वहरिवत् इन्द्रस्य करणमेवेत्यतः हरिरित्युच्यते । तदेवं 'हर्योः' ज्ञानेन्द्रियजातस्य कर्मेन्द्रियजातस्य च 'पृष्ठं धावन्तं' 'पृष्ठे धावनप्रवणम्, इन्द्रियानुगमिन्द्रियदासम्, न तु इन्द्रियाश्वारोहिणमिन्द्रियस्वामिनम् ‘औच्चैःश्रवसम्' उच्चैः उच्चार्यमाणमेव शृणोतीति उच्चैःश्रवाः । शृणोते: सार्वधातुकोऽसून औणादिकः । उच्चैःश्रवा एव औच्चैःश्रवसः, स्वार्थेऽण, तम्, उपदेशं प्रबोधनं वा प्रति बधिरायमाणं मनुष्यम् 'अब्रुवन्' अवोचन ज्ञानिनो मनीषिण इति शेषः । 'अश्व' श्वो न विद्यमान इति अश्वः तत्सम्बुद्धौ । हे क्षणभङ्गुरजीवन मानव ! 'जैत्राय' इन्द्रियविजयाय 'स्वस्ति' कल्याणसाधनाय च 'सुस्रजम्' इन्द्रम्, 'आवह' शोभन दिव्यगुणमालाधारिणम् इन्द्रम् इन्द्रियाणां दिव्यमनसश्चाधिष्ठातारम् इन्द्रदेवम् आवाहय आनय च स्वहदयवेद्याम्, तत्प्रसादीकृतदिव्यमनःशक्त्या इन्द्रियजातं विजित्य निजकल्याणसाधनार्थमिति भावः ।
२०.१२८.१६
युक्त्वा श्वेता औच्चैःश्रवसं हर्योर्युञ्जन्ति दक्षिणम् ।
पूर्वतमं स देवानां बिभ्रदिन्द्रं महीयते ॥१६॥
'श्वेताः' दिव्यसङ्कल्पस्य स्वकार्यसम्पादनक्षमाः पूर्णदृष्टि शक्तयः एव श्वेता अश्वाः । तथा चाहुः श्रीअरविन्दपादाः-- देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् ।
उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥ - (ऋ० ७.७७.३)
"अस्मिन् मन्त्रे 'श्वेतोऽश्वः' पूर्णतया प्रतीकात्मक एवेति प्रतरां स्पष्टम् । ('श्वेतः अश्वः' इति वाक्प्रयोगोऽत्र अग्निदेवाय कृतः । अग्निर्हि द्रष्टसङ्कल्पः, कविक्रतुः, दिव्यसङ्कल्पस्य स्वकार्यसम्पादनक्षमा पूर्णदृष्टिशक्तिरेव) ।"
'श्वेता: युक्त्वा' पूर्णदृष्टिशक्तिस्वरूपान् श्वेतान् अश्वान् धुरि नियुज्य देवाः 'औच्चैःश्रवसम्' पूर्व मन्त्रोक्तं 'श्रुति' (अन्तःश्रवण) शक्तिरूपमश्वं 'हर्योः दक्षिणं युञ्जन्ति' पूर्वमन्त्रोक्त-अपरोक्षान्तर्दृष्टि-सम्बोधिस्वरूपाश्वयोः ऋतचितः शक्त्योः दक्षिणतः योजयन्ति । सः' औच्चैःश्रवसः 'श्रुति' शक्तिरूपोऽश्वः 'देवानां पूर्वतमं' देवानां प्रथमं प्रधानं च 'इन्द्रं' दिव्यमनोभूमिकाया दिवोऽधीश्वरं बिभ्रत्' धारयन् वहन् वा 'महीयते' पूज्यते, प्रशस्यते । इन्द्रस्य देवानां पूर्वतमत्वं हि 'यो जात एव प्रथमो मनस्वान् देवो देवान् ऋतुना पर्यभूषत्' इत्यादिमन्त्रवर्णैः सुस्पष्टमाम्नातम् । इन्द्रो दृष्टि-श्रुति-स्मृति-शक्तिसमेतः साधकस्य चिद्भूमिमवतरति इति रहस्यार्थः ।।
(कुन्तापसूक्तसौरभम्, भाष्यकारः - जगन्नाथो वेदालङ्कारः। गुरुगङ्गेश्वर-चतुर्वेदप्रकाशनसंस्थानम्, श्रौतमुनिनिवासः, गाँधीमार्गः, वृन्दावनम् , १९८३)