कृतम् । विवाहस्त्विच्छायां सत्याम् । वैराग्ये तीव्रे जाते समावर्तनादीनां लोपः । तत्र संन्यासाश्रम एव ।
इति संस्काररत्नमालायामन्तरितसंस्काराणां तन्त्रेण प्रयोगः ।
इत्योकोपाह्वश्रीमद्गणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचि-
तायां सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां पञ्चमं प्रकरणम् ॥ ५ ॥
अथ षष्ठं प्रकरणम् ।
अथ विकलाङ्गोपनयनम् ।
तत्र ब्रह्मपुराणम्--
"ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स इति श्रुतिः । |
गद्गदो गद्गदभाषी । रोगार्तोऽपस्मारादिरोगार्तः । शुक्लाङ्गः श्वेतकुष्ठादिमान् । विकलानि दुर्बलानि हीनानि वाऽङ्गानि यस्य सः । उन्मत्त उन्मादवान् । ध्वस्तं पुंस्त्वं यस्य सः । निर्गतमिन्द्रियं यस्य सः । आघातेन च्छिन्नेन्द्रिय इति यावत् । यथोचितमित्यनेन ये ये द्विजत्वनिष्पादका उचिता विहिताः संस्कारास्त एतेषामप्यशक्याङ्गहानेन कार्या इति सूच्यते । द्विज