रस्य संस्कारो यः कश्चन प्राप्नुयात्तदा पूर्वस्यान्तरितान्संस्कारान्कृत्वैवापरस्य प्राप्तः संस्कारः कर्तव्यः । पूर्वापत्यसंस्कारसंपादनपूर्वकमेवापरसंस्कारसंपादनस्य युक्तत्वात् । यमलयोर्ज्येष्ठक्रमेणैव संस्कारकर्तव्यतादर्शनाद्व्यवस्थार्थं यमलविषयकशास्त्रस्वीकारे बाधकाभावाच्च । अन्यथाऽसति महति प्रतिबन्धे ज्येष्ठभ्रातृसंस्कारात्पूर्वं कनिष्ठभ्रातृसंस्कारे ज्येष्ठभ्रातुरभिवादनानर्हत्वापत्तेः । आचारश्चाप्येवमेव ।
"ज्येष्ठे त्वकृतसंस्कारे गर्भाधानादिकर्मभिः । |
वस्तुतस्त्वत्र मूलं चिन्त्यम् । असति महति प्रतिबन्ध इतिविशेषणान्नज्येष्ठभ्रातुः काराग्र(गृ)हादिना षोडशवर्षपर्यन्तं प्रतिबन्धे कनिष्ठस्य तावत्पर्यन्तमुपयनयनप्रतिबन्धः । न चैवं परिवेत्तृत्वादिदोषप्रतिपादकशास्त्रवैयर्थ्यं, तस्य ज्येष्ठकनिष्ठभ्रातृदात्राद्यनेकविषयकदोषबाहुल्यप्रतिपादनार्थत्वेन सार्थक्यसंभवात् । अन्तरितसंस्काराणां प्राप्तसंस्कारसतन्त्रतयाऽनुष्ठाने नोत्तरायणादिनियमो न चोक्तकालस्य नियमः । ज्येष्ठान्तरितसंस्कारकालानुरोधेन कनिष्ठसंस्कारा उत्क्रष्टव्याः । तत्रापि यथोक्तकाले कार्याः । अथवा कनिष्ठसंस्काराः स्वकाल एव कार्यास्तदनुरोधेन ज्येष्ठस्येति । अत्र यद्युक्तं तद्ग्राह्यं सुधीभिः । अन्तरितसंस्काराणामन्यकर्तृकत्वे गर्भाधानस्य प्रायश्चित्तमात्रमेव । [१]गर्भाधानादिसंस्काराणामगतौ केवलं प्रायश्चित्तेनापि चरितार्थता । उपनयनादिसंस्काराणां कालातिपत्तौ तु तत्तत्कालातिपत्तिप्रायश्चित्तं कृत्वोपनयनादयः संस्काराः क्रमेणावश्यं कार्याः । अत एवाऽऽचार्येणोपनयनमुखेनाऽऽम्नानं
- ↑ क. पुस्तके टिप्पणीरूपेण बहिर्लिखितो ग्रन्थः--"प्रयोगपारिजाते संस्कारातिपत्तिप्रायश्चित्तमुच्यते । तत्र भृगुः--'गर्भाद्यसंस्कृतस्यापि कर्तव्यं चोपनायनम् । प्रायश्चित्तं तु पूर्वेषां नौपनायनिकस्य तु । श्रौतस्मार्ताधिकारी स्यान्नोपनायनिकं विना' इति । प्रायश्चित्तप्रकारं तु भगवानाह--आरभ्याऽऽधान० । संस्कारमयूखे भृगुः--'गर्भाद्यसंस्कृतस्यापि कर्तव्यं चोपनायनम् । प्रायश्चित्तं तु पूर्वेषां नौपनायनिकस्य तु । श्रौतस्मार्ताधिकारी स्यान्नौपनायनिकं विना' इति । उपनयनप्राग्भाविगर्भाधानादिसंस्काराणां मुख्यगौणकालातिक्रमे प्रायश्चित्तमात्रानुष्ठानं न पुनः संस्कारानुष्ठानमपि । उपनयनं तूभयविधकालातिक्रमेऽपि प्रायश्चित्तानुष्ठानपूर्वमनुष्ठेयमेव न प्रायश्चित्तमात्रानुष्ठानमिति वाक्यार्थः" इति ।