तत इमं मे वरुणेत्यङ्गहोमं जयाद्युपहोमांश्च कृत्वा स्विष्टकृदादिसंस्थाजपान्तं समाप्य त्रिवृदन्नहोमं पुण्याहवाचनं च कुर्यात् । वास्तुबलेर्विकल्पः । मह्यमित्यादिपुंसवनसीमन्तोन्नयन[१]जातकर्मनामकरणान्नप्राशनकर्मणां पुण्याहं भवन्तो ब्रुवन्त्विति त्रिः कर्ता वदेत् । एवं स्वस्त्ययनं भवन्तो ब्रुवन्तु । ऋद्धिं भवन्तो ब्रुवन्त्विति । चौलस्यापि सहकर्तव्यतायां तु, अन्नप्राशनपदोत्तरं चौलपदस्यापि प्रयोगः । ततः क्रमेण प्रधानानि । तत्र यत्र क्रियाया असंभवस्तत्र संस्कार्यं स्पृशंस्तं तं मन्त्रं पठित्वाऽन्ते तां तां क्रियां विभावयेत् । यत्र तु संभवस्तत्र सा सा क्रियेदानीमेव निष्पाद्यते मयेति बुद्ध्या तत्तन्मन्त्रान्ते तां तां क्रियां कुर्यात् । मन्त्रपाठमात्रं वा । तत्र गर्भाधानसंस्कारसिद्ध्यर्थं शयनाह्वानरेतोवस्कन्दनमन्त्रान्संस्कार्यं स्पृष्ट्वा पठित्वा तां तां क्रियां तत्तन्मन्त्रान्ते विभावयेत् । एवं पुंसवनसंबन्धिदधिद्रप्सादिप्राशनमन्त्रान्संस्कार्यं स्पृष्ट्वा पठित्वा तां तां क्रियां विभावयेत् ।
ततो वक्ष्यमाणप्रयोगरीत्या संस्कार्यं संस्पृशन्सीमन्तमुन्नीय वक्ष्यमाणरीत्या जातकर्म कुर्यात् । तत्र जातमपि पुत्रमिदानीमेव जातोऽयमिति विभाव्य तन्मुखं वीक्ष्याश्मनि कुमारं धारयित्वोद्धूपनादिस्तनाभिमर्शनान्तं सर्वं कर्म कुर्यात्संभवात् । अथवा संस्कार्यं स्पृष्ट्वा मन्त्रान्पठित्वाऽन्ते तां तां क्रियां विभावयेत् । आपो[२] हविष्ण्वित्येतस्य जप एव । इदानीं तस्याः सूतिकात्वाभावेन तत्प्रयुक्तविधेरसंभवात् । न चैवमुद्धूपनस्य सूतकाग्निसाध्यत्वात्तस्य चेदानीमभावात्कथं तत्संबन्ध्यनुष्ठानमिति वाच्यम् । सूतकोपलक्षितकर्मार्थोऽग्निः सूतकाग्निः । तच्च कर्मोद्धूपनं तदर्थत्वस्यान्यस्मिन्नग्नावपि संभवेनोद्धूपनकर्मणः प्रवृत्तेर्निराबाधात् । अथवा यथावस्थितमन्त्रपाठ एव । यदा तु कुमारो महांस्तदा सर्वेषां पाठ एव ।
ततो वक्ष्यमाणरीत्या नामदानं विधाय वक्ष्यमाणरीत्या दधि मधु घृतमितित्रिवृत्सव्यञ्जनमन्नं च समन्त्रं प्राशयित्वा ब्राह्मणान्संभोज्याऽऽशिषो वाचयित्वा विष्णुं संस्मरेत् ।
तत उपनयनदिन एव वक्ष्यमाणरीत्या चौलं विधायोपनयनमारभेत । 'उपनीत्या सहाथवा' इति वचनादुपनयनदिने चौलकर्तव्यतानियमः । अत्र सहशब्द उपनयनसंनिकृष्टकालपरः । यदि पूर्वापत्यस्य संस्कारेष्वन्तरितेषु सत्स्वेवाप