पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७२
( अन्तरितसंस्कारप्रयोगः )
भट्टगोपीनाथदीक्षितविरचिता--

वस्थाविषये द्रष्टव्यः । सा च व्यवस्थाऽग्रे वक्ष्यते । पुंसवनादिभ्यः संस्कारकर्मभ्यश्चौलोपनयनयोः कालभेदादङ्गानि पृथगेव । तन्त्रं तु पुण्याहवाचनादिमात्रपर्यवसायि । शास्त्रान्तरोक्तत्वेन सूर्यावलोकनस्याकरणपक्षे न संकल्पः ।

 ततस्तदङ्गत्वेन गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च कृत्वाऽन्नप्राशनचौलोपनयनाङ्गत्वेन विहितमङ्कुरारोपणं कृत्वोपनयनाङ्गत्वेन ग्रहयज्ञं नन्दिन्यादिमण्डपदेवताप्रतिष्ठापनं च कार्यम् । सति संभवे नान्दीश्राद्धोत्तरमेवान्तरितान्संस्कारान्कृत्वा ग्रहयज्ञाङ्कुरारोपणमण्डपदेवताप्रतिष्ठापनानि कुर्यादिति क्रमः । ग्रहयज्ञोत्तरं वाऽन्तरितसंस्काराः कार्याः । सर्वेषां सद्यःकरणे तूपनयनान्तानां सर्वेषां संस्काराणां संकल्पवाक्यान्युच्चार्याद्य करिष्य इत्येव वदेत् । अस्मिन्पक्षेऽन्नप्राशनसंस्कारस्य प्रायश्चित्तेनैव चारितार्थ्यं न तु तस्याप्यनुष्ठानम् । तदनुष्ठानेऽन्नप्राशनानुष्ठानोत्तरम् ।

"न केशादीन्वापयीत भुक्तोऽभ्यक्तो व्रती नरः" ।

 इति भोजनोत्तरं वपननिषेधेन चौलासंभवात्[१] । अत्र सर्वाण्यङ्गानि सकृदेवानुष्ठेयानि । वैशेषिकहोमोऽपि संप्रतिपन्नदेवताकश्चेत्सकृदेवानुष्ठेयः । यथा धात्रीचतुष्टयहोमः ।

 तत उल्लेखनादिनाऽऽयतनसंस्कारं विधाय तत्रौपासनाग्निं प्रतिष्ठाप्य प्रज्वाल्य ध्यायेत् । अन्यः कर्ता चेल्लौकिकाग्नौ स्वकालप्राप्तं कर्म यद्भवति तत्कर्मप्रयुक्ताग्निनामात्र ज्ञेयं सर्वाणि वा ।

 ततः समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पुंसवनसीमन्तोन्नयननामकरणान्नप्राशनहोमकर्मणि या यक्ष्यमाणा देवता इत्यादिव्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अनुमतिं चतसृभिराज्याहुतिभिर्यक्ष्ये । राकां द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । सिनीवालीं द्वाभ्यामाज्याहुतिभ्यां यक्ष्ये । त्रयोदशाहुतिपक्षे कुहूमेकयाऽऽज्याहुत्या यक्ष्य इत्यधिकम् ।

 ततोऽङ्गहोमे वरुणं द्वाभ्यामित्यादि व्याहृतिहोमान्तं कृत्वा प्रधानहोमः । संप्रतिपन्नदेवताकत्वात्पुंसवनसीमन्तोन्नयनसंबन्धिधात्रीचतुष्टयमव्यवहितत्वान्नामकर्मसंबन्धिप्रधानैकदेशभूतं धात्रीचतुष्टयं च तन्त्रेण हुत्वाऽनु नोऽद्यानुमतिरित्याद्या अष्टौ नव वाऽऽहुतीर्जुहुयात् । सर्वेषां सद्यःक्रियापक्षे चौलस्यापि सहैव कर्तव्यत्वादन्वाधानेऽन्नप्राशनपदोत्तरं चौलपदस्याप्युल्लेखः कार्यः ।


  1. ग. घ. ङ. वापत्तेः । अ ।