[उपनयनप्रकरणम्]]
२५७
संस्काररत्नमाला ।
क्वचिदपवादमाह यमः--
"देवद्रोण्यां विवाहेषु यज्ञेषु प्रकृतेषु च ।
काकैः श्वभिश्च संस्पृष्टमन्नं तन्न विवर्जयेत् ।
अन्नं तन्मात्रमुद्धृत्य शेषं संस्कारमर्हति ।
घृ[१]तस्य प्रोक्षणाच्छुद्धिर्द्रवाणामतितापनात् ।
संस्पर्शाच्च भवेच्छुद्धिरपामग्नेर्घृतस्य च ।
छागेन मुखसंस्पृष्टं शुचि चैव हि तद्भवेत्" इति ।
|
संवर्तः--
"शूद्राणां भाजने भुक्त्वा अथवा भिन्नभाजने ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति" इति ॥
|
भिन्नभाजनं कांस्यमेव--
"ताम्ररजतसुवर्णाश्मशङ्ख[२]स्फटिकानां भिन्नमभिन्नमपि"
|
इति देवलस्मरणात् ।
"भिन्नकांस्ये तु योऽश्नीयान्नद्यां स्नात्वा जपेद्द्विजः ।
गायत्र्यष्टसहस्रं तु एकभुक्तस्तदा शुचिः" इति बौधायनोक्तेश्च ।
|
एतच्च ज्ञानतः, संवर्तोक्तं त्वज्ञानविषयम् ।
यत्तु पराशरः--
"भिन्नभाण्डे तु भुञ्जानो ह्यज्ञानेन द्विजोत्तमः ।
सुवर्णोदकसंस्पृष्टं घृतं प्राश्य विशुध्यति" ॥
|
इति संवर्तोक्तिसमानविषयं तदिति द्रष्टव्यम्[३] ।
[४]स्मृत्यर्थसारे परिवेषणे रजोदृष्टौ तत्स्पृष्टान्नस्य त्यागः । एवं चण्डालसूतिका[५]दिस्पृ[६]ष्टेऽपि ।
भुञ्जानस्य क्षुते संग्रहे--
"क्षुतं भोजनमध्ये चेज्जायते यस्य कस्यचित् ।
आदित्यं जन्मभूमिं च स्मरेत्प्रोक्षितमस्तकः" इति ।
|
- ↑ घ. ङ. घृतानां ।
- ↑ क. ङ्खस्फाटि ।
- ↑ अस्मात्पुरतो घ. ङ. पुस्तकयोरनुपदं धनुश्चिह्नमध्ये संगृहीतो ग्रन्थो वर्तते ।
- ↑ एतत्पङ्क्तिद्वयं क. पुस्तके भुञ्जानस्येत्यादिमस्तक इतीत्यन्तग्रन्थात्पुरतो वर्तते ।
- ↑ क. ख. कास्पृ ।
- ↑ ग. घ. ङ. स्पृष्टे । भु ।