पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५६
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( सिद्धान्ने केशकीटादिपाते प्रायश्चित्तम् )
 

 संवर्तः--

"केशकीटावपन्नं च नीलीलाक्षोपघाति[१]तम् ।
स्नाय्वस्थिचर्मसंसृष्टं भुक्त्वा तूपवसेदहः" इति ।

 इदमापद्यकामतः ।

 अनापदि कामतस्तु शङ्खः--

"दूषितं केशकीटैश्च मार्जारैर्मूषकैस्तथा ।
मक्षिकाचटकैश्चैव त्रिरात्रं तु व्रतं चरेत्" इति ।

 कामतोऽभ्यासे प्रचेताः, दुष्टकीटानुपक्रम्य,--

"एतैः काकादिभिश्चैव यदन्नं दूषितं भवेत् ।
तदन्नं कामतो जग्ध्वा कृच्छ्रं सांतपनं चरेत्" इति ।

 अकामतोऽर्धम् ।

 यत्त्वाह विष्णुः--

"भुक्त्वाऽस्पृश्यं तथाऽऽशौचिकीटकेशैश्च दूषितम् ।
कुशोदुम्बरबिल्वाद्यैः पनसाम्बुजपत्रकैः ॥
शङ्खपुष्पीसुवर्चादिक्वाथं पीत्वा विशुध्यति" इति ।

 तदापद्यशक्तविषयम् ।

 सिद्धान्ने केशकीटादिपाते तु प्रचेताः--

"अन्नं भोजनकाले तु मक्षिकाकेशदूषितम् ।
अनन्तरं [२]स्पृशेदापस्तदन्नं भस्मना स्पृशेत्" इति ।

 ब्राह्मेऽपि[३]--

"चण्डालपतितामेध्यैः कुनग्वैः कुष्ठि[४]भिस्तथा ।
ब्रह्मघ्नसूतिकोदक्याकौलेयककुटुम्बिभिः ।
दु(व्यु)ष्टं वा केशकीटाक्तं मृद्भस्मकनकाम्बुभिः ।
शुद्धमद्यात्सत्दृल्लेखं प्रदुष्टं दुष्टमेव च" इति ।

 कौलेयकः श्वा । कुटुम्बी कीटविशेषः । व्युष्टं पर्युषितम् ।

 यत्तु कीटादिभिः सहैव पक्वं तत्तु वर्जनीयमेवेत्याह हारीतः--

"विशुद्धमपि चाऽऽहारं मक्षिका[५]क्रिमिजन्तुभिः ।
केशरोमनखैर्वाऽपि दूषितं परिवर्जयेत्" इति ।


  1. क. तिनम् ।
  2. सर्वपुस्तकेषु दीर्घपाठः स चाऽऽर्षः ।
  3. घ. ङ. पि--चाण्डा ।
  4. घ. ङ. ष्ठिना तथा ।
  5. घ. ङ. काकृमि ।