पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५८
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( ब्रह्मचारिकर्तृकं सायंप्रातः समिदभ्याधानम् )
 

अथाग्निकार्यसंज्ञकं समिदभ्याधानमुच्यते ।

 तत्रेदं गृह्यम्--

 "उभौ कालौ साय सायं वा समिधोऽभ्यादधाति पुरस्तात्परिषेचनाद्यथा ह तद्वसवो गौर्यमिति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति यथा पुरस्ताद्व्याहृतिभिः समिधोऽभ्यादधात्येकैकशः समस्ताभिश्चैषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा । मेधां म इन्द्रो० स्रजौ स्वाहा । अप्सरासु च० र्जुषता स्वाहा । आ मां मेधा सु० जुषन्ता स्वाहेति तथैव परिमृज्य परिषिञ्चति यथा पुरस्ताद्यत्ते अग्ने तेज इत्येतैरुपति[१]ष्ठते मयि मेधां मयि प्रजामिति च" इति ।

 अस्यार्थः--उभौ कालौ सायंप्रातः सायमेव वा समिधोऽभ्यादधाति, आसमावर्तनम् । अहरहः काष्ठकलापमित्यतोऽहरहरित्यनुवर्तनीयम् । अन्यथा सायंसमिदाधानपक्ष एव वीप्साश्रवणादावृत्तिः स्यात् । उभौ कालावित्यस्मिन्पक्षे न स्याद्वीप्साया अश्रवणात् । न चैवं सायमित्यत्र वीप्सावचनं व्यर्थमिति वाच्यम् । सर्वत्र यः प्रथमं प्रक्रान्तः पक्षः स एवाऽऽन्तं कार्य इतिपरिभाषाज्ञापनार्थत्वात् । न च प्रक्रमात्तु नियम्यत इति वचनादेव सिद्धिः । तस्यानुनिर्वाप्यविषयत्वात् ।

 अथवाऽहरहरिति नानुवर्तते । न चैवं सायमित्यत्रैव वीप्साश्रवणादावृत्तिः स्यात् । उभौ कालावित्यस्मिन्कल्पे न स्यात्तस्या अश्रवणादिति वाच्यम् । अनुकल्पपक्षे वीप्सयाऽऽवृत्तौ सिद्धायां कैमुतिकन्यायेन मुख्यकल्पेऽपि तत्सिद्धेः । अस्मिन्व्याख्याने परिगृहीतपक्षः प्रक्रमात्तु नियम्यत इ[२]त्येतेनैव सिध्यति ।

 पुरस्तात्परिषेचनाद्यथा ह तद्वसवो गौर्यमित्यनेन मन्त्रेण प्रदक्षिणमग्न्यायतनं सोदकेन पाणिना संमृज्य परिषिञ्चति यथा पुरस्तात्, उपनयनोक्तेन पूर्वपरिषेकप्रकारेणेत्यर्थः । व्याहृतिभिरेकैकश एकैकया व्याहृत्या समस्ताभिश्चेति चतस्रः समिधोऽभ्याधायैषा त इत्याद्यैश्चतुर्भिश्चतस्रः समिधोऽभ्यादधातीत्यष्टौ समिधोऽभ्याधाय तथैव यथा ह तदिति परिमृज्योपनयनोक्तेनोत्तरपरिषेकप्रकारेण परिषिञ्चति ।


  1. घ. ङ. तिष्ठेते ।
  2. घ. ङ. इत्यनेनै ।