एतच्च समानदेशविषयम् ।
"ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति । |
संनिधावित्युक्त्याऽसंनिहितस्य न दोष इत्युक्तं भवति ।
देवलः--
"यः स्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति । |
स्वस्थ इति वचनादस्वस्थस्य न दोष इत्युक्तं भवति । सूतकादिषु ऋतावगच्छतो न दोषः ।
तथा च मनुः--
"सूतके बन्धने विप्रो हव्यकव्यादिवर्जितः । |
व्यासः--
"व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु । |
ऋतुकाल इत्यनन्तरमगमन इति शेषः । योऽयमृतौ भार्यागमननियमः सोऽजातपुत्रं प्रत्येव । 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इतिश्रुतिमूलकत्वेनास्योपपत्तेः श्रुत्यन्तरकल्पनाया अन्याय्यत्वात् ।
तथा च मनुः--
"ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः । |
कूर्मपुराणमपि--"ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते" इति ॥
एवं चैकपुत्रोत्पादनेन शास्त्रार्थस्य कृतत्वादानृण्ये च जाते न पुत्रान्तरोत्पादनमावश्यकम्, इति । केचित्तु ऋतोर्निमित्तत्वात्प्रतिनिमित्तं नैमित्तिक्यावृत्तिरुचिता ।
स्मरन्ति च--
"एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्" [इति] इत्याहुः । |
ऋतुकाले भार्याया अपि भर्तारं प्रति गमनं नियतमन्यथा दोषः ।
तथा च संग्रहे--
"ऋतुस्नाता तु या नारी भर्तारं नानुमन्यते । |
यमोऽपि--
"ऋतुस्नाता तु या नारी भर्तारं नोपगच्छति । |