पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६८५
संस्काररत्नमाला
( स्त्रीणामनेकत्वे, ऋतुयौगपद्ये गमनक्रमः )
 

 ज्योतिर्वसिष्ठः--

"उपप्लवे वैधृतिपातयोश्च विष्ट्यादिके पारिघपूर्वभागे ।
संध्यासु पर्वस्वपि मातृपित्रोर्मृतेऽह्नि पत्नीगमनं विवर्ज्यम्" इति ॥

ज्यौतिषे--

"दिनेषु युग्मेषु च वक्ष्यमाणैर्योगैः सुतार्थी स्वसतीमुपेयात् ।
दिनेष्वयुग्मेषु च कन्यकार्थी हित्वा तु ग[१]ण्डं तिथिलग्नभागान्" इति ॥

 मातापित्रोश्च श्राद्धदिवसपूर्वदिवसोऽपि वर्ज्य इत्युक्तं मुहूर्तमार्तण्डे ।

 एतच्च गुरुशुक्रास्तादावपि कार्यम् ।

"उत्सवेषु च सर्वेषु सीमन्त ऋतुजन्मनोः ।
सुरासुरेज्ययोश्चैव मौढ्यदोषो न विद्यते" ॥

 इति ज्योतिर्निबन्धे भृगूक्तेः । चकारादतिचारादीनां ग्रहणम् ।

 मलमासेऽप्येतद्भवति ।

"अमासंक्रान्तिविष्ट्यादौ प्राप्तकालेऽपि नाऽऽचरेत् ।
गर्भाधानादिकर्माणि नाधिमा[२]से विवर्जयेत्" इति गर्गोक्तेः ।

 स्त्रीणामनेकत्व ऋतुयौगपद्ये गमनक्रममाह देवलः--

"यौगपद्ये तु तीर्थस्य विप्रादिक्रमशो व्रजेत् ।
रक्षणार्थमपुत्रां वा ग्रहणक्रमशोऽपि वा" इति ॥

 तीर्थमृतुः । तद्योगपद्ये, अपुत्रां प्रथमं गच्छेत् । सर्वासामपुत्रत्वे पुत्रवत्त्वे वा वर्णक्रमेण ग्रहणक्रमेण वेत्यर्थः । ग्रहणक्रमः पाणिग्रहणक्रमः ।

 तथा च कश्यपः--"यौगपद्ये तु तीर्थस्य विवाहक्रमशो व्रजेत् " इति ।

 ऋतौ गमनं श्रुतावुक्तम्--ऋतौ भार्यामुपेयादिति ।

 ऋतावगमने प्रायश्चित्तमाह बृहस्पतिः--

"आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि ।
ऋतौ न गच्छेद्यो भार्या सोऽपि कृच्छ्रार्धमाचरेत्" इति ॥

 ऋतुरत्र स्नानदिनमारभ्य त्रयोदश दिनानि । पञ्चमदिनमारभ्य द्वादशदिनानि वा ।

यत्तु संवर्तः--

"ऋतौ नोपैति यो भार्यां नियतां व्रतचारिणीम् ।
नियमातिकमात्तस्य प्राणायामशतं स्मृतम्" इति, तदकामतः ॥



  1. ख. ङ. च. गण्डांस्तिथि ।
  2. क. ख. ग. ङ. मासं वि ।