भ्रूणघ्नीयमिति तां स्त्रियं ग्राममध्ये विख्याप्य प्रकटीकृत्य पृथग्वासयेदित्युत्तरार्धार्थः । अत्रापि संनिधाविति ज्ञेयम् । प्रायश्चित्तं तु पूर्वोक्तमेव ज्ञेयम् । व्याधितादीनां स्त्रीणामपि भर्तारं प्रत्यृतावगमने न दोषः । अनन्तरोदाहृतव्यासवाक्ये पुंलिङ्गस्याविवक्षितत्वात् ।
अनृतावपि गमनमाह श्रुतिः--
"ता अब्रुवन्वरं वृणामहा ऋत्वियात्प्रजां विन्दामहै काममाविजनितोः |
ऋत्वियादृतुकालिकात्पुरुषसंबन्धात् । आविजनितोः प्रसूतिपर्यन्तम् । संभवन्ति मिथुनी भवन्ति ।
धर्मसूत्रेऽपि--"अ [१]न्तरालेऽपि दार एव ब्राह्मणवचनाद्वा संवेशनम्" इति ।
याज्ञवल्क्योऽपि--
"यथाकामी भवेद्वाऽपि स्त्रीणां वरमनुस्मरन् । |
वरमिन्द्रदत्तवरम् ।
बृहस्पतिरपि--
"ऋतुकालाभिगमनं पुंभिः कार्यं प्रयत्नतः । |
विष्णुपुराणेऽपि--
"इति मत्वा स्वदारेषु ऋतुमत्सु नरो व्रजेत् । |
यस्तु--
"ऋतौ नोपैति यो भार्यामनृतौ यश्च गच्छति । |
इति बौधायनेनानृतौ गमननिषेध उक्तः स स्त्रियाः कामाभावे ज्ञेयः ।
कासांचिन्निषेधमाह व्यासः--
"नास्नातां तु स्त्रियं गच्छेन्नाऽऽतुरां न रजस्वलाम् । |
छद्मवत्त्वादिदोषरहिता प्रशस्ता । न प्रशस्ताऽप्रशस्ता तां वर्जयेदित्यर्थः । वृद्धां सरजस्कामपि अशक्तां गर्भधारणे । पुष्पिणी, ऋतुमती । तदन्याऽपुष्पिणी । अप्राप्तार्तवा गतार्तवा च गमनेऽनेन निषिध्यते ।
- ↑ ङ. अनन्त ।