सामग्री पर जाएँ

पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६६७
संस्काररत्नमाला
( उदक्ययोरन्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च शुद्धिप्रकारः )
 

 स्मृत्यन्तरे तु--

"रात्रावेव समुत्पन्ने मृते रजसि सूतके ।
पूर्वमेव दिनं ग्राह्यं यावन्नाभ्युदितो रविः" इत्युक्तम् ।

 पूर्वरात्रेरन्त्यार्धमारभ्योत्तररात्रेः पूर्वार्धपर्यन्तं दिनं, त्रिधा विभक्ताया रात्रेस्तृतीयभागमारभ्योत्तररात्रेराद्यभागद्वयपर्यन्तं दिनं, सूर्योदयमारभ्य सूर्योदयपर्यन्तं दिनमित्येवं पक्षत्रयं सिद्धम् ।

 सच्च देशाद्व्यवस्थितं ज्ञेयम्--

"त्रयाणामपि पक्षाणां व्यवस्था देशभेदतः" इति संग्रहोक्तेः ।

इति रजोदर्शनदिनव्यवस्था ।

अथ प्रसङ्गादन्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च
शुद्धिप्रकारः ।

तत्र स्मृतिमञ्जर्यां वृद्धवसिष्ठः--

"उदक्ये द्वे तु संसृष्टे सवर्णे चैकभर्तृके ।
तयोः स्नानं मिथःस्पर्शे पञ्चगव्यं ततः पिबेत् ॥
सवर्णयोनिसंबन्धे सगोत्रे च रजस्वले ।
मिथः स्पृष्टे त्वमत्या तु स्नानमात्रेण शुध्यतः ॥
मत्या त्वमु(भु)क्तिरेकाहं पञ्चगव्याशनं ततः ।
उदक्ययोर्यदाऽन्योन्यमसंबन्धसवर्णयोः ॥
स्पर्शे त्वमत्या स्नात्वा च तस्मिन्नाद्याच्छुचिर्भवेत् ।
मत्या तु नाद्यादाशुद्धेर्भुक्ता चेत्प्रतिवासरम् ॥
उपोषणं तदा केचिदाहुस्तद्दिनसंख्यया ।
उपोषणे न शक्ता चेत्समं दानं समाचरेत्" इति ॥

रूप्यमाषदानमुपवासप्रत्याम्नाय इति शूलपाणिः । नाद्यान्न भुञ्जीयात् ।

अत्र पञ्चगव्याशनमप्युक्तं कश्यपेन--

"रजस्वला तु संस्पृष्टा ब्राह्मण्या ब्राह्मणी यदि ।
एकरात्रं निराहारा पञ्चगव्येन शुध्यति" इति ॥

एतच्चाकामतः ।

"स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मण्या ब्राह्मणी तथा ।
तावत्तिष्ठेन्निराहारा त्रिरात्रेणैव शुध्यति" ॥