पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६६८
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( उदक्ययोरन्योन्यस्पर्शे श्वशूद्रादिस्पर्शने च शुद्धिप्रकारः )
 

 इति पराशरोक्तं तु कामतः ।

 सपत्न्योरेकगोत्रयोश्च स्पर्शे वसिष्ठः--

"स्पृष्टे रजस्वलेऽन्योन्यं सगोत्रे चैकभर्तृके ।
कामादकामतो वाऽपि सद्यः स्नानेन शुध्यति(तः)" इति ॥

 रजस्वलेऽन्योन्यमित्यत्र प्रकृतिभावाभाव आर्षः ।

 असवर्णास्पर्शे पराशरः--

"स्पृष्टे रजस्वलेऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा ।
त्रिरात्रेण विशुद्धिः स्याद्व्याघ्रस्य वचनं यथा ॥
रजस्वला तु संस्पृष्टा वैश्या च ब्राह्मणी[१] च या ।
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ॥
रजस्वला तु संस्पृष्टा शूद्रा च ब्राह्मणी[२] च या ।
षड्रात्रेण विशुद्धिः स्याद्ब्राह्मण्या(ण्याः) कामकारतः ॥
अज्ञानतश्चरेदर्धं ब्राह्मणी सर्वजातिषु" इति ॥

 अत्र यथा ब्राह्मणीरजस्वलयोः स्पर्श उपवासः पञ्चगव्याशनं च तथाऽन्यासामपि सवर्णरजस्वलास्पर्शे तदेव । यथा ब्राह्मण्याः क्षत्त्रियास्पर्शे त्रिरात्रं तथा क्षत्त्रियाया वैश्यास्पर्शे वैश्यायाः शूद्रास्पर्शे ।

 तथा च भवदेवनिबन्धे स्मृतिः--

"रजस्वला तु या नारी अन्योन्यमुपसंस्पृशेत् ।
सवर्णा पञ्चगव्येन त्रिरात्रमसवर्णका" इति ॥

 पञ्चगव्येनोपवाससहितेनेति भवदेवः ।

 तथा च शातातपः--

"रजस्वले उभे नार्यावन्योन्यं स्पृशतो यदि ।
सवर्णे तु निराहारे पञ्चगव्याशनं ततः" इति ॥

 यत्तु वृ[३]द्धवसिष्ठः--

"स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्त्रिया तथा ।
अर्धकृच्छ्रं चरेत्पूर्वा पादकृच्छ्रं त्वनन्तरा ॥

 पूर्वा ब्राह्मण्यनन्तरा क्षत्त्रिया ।

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी वैश्यजा तथा ।
पादहीनं चरेत्पूर्वा पादकृच्छ्रं त्वनन्तरा ॥



  1. च. णी तथा । प ।
  2. च. णी तथा । ष ।
  3. ख. ग. बृहद्वसिष्ठः ।