टोडरानन्दे वसिष्ठः--
"नैमित्तिकमनध्यायं कृष्णे च प्रतिपद्दिनम् । |
अयं च प्रतिपद्दिनविधिर्नैमित्तिकानध्यायविधिश्चातीतकालस्याऽऽर्तस्य वटोरुपनयनविषयः ।
"प्रशस्ता प्रतिपत्कृष्णे कदाचिच्छुभगे विधौ । |
इतिव्यासोक्तेः ।
एवं--"चन्द्रे बलयुते लग्नाच्छुभभावे शुभेक्षितौ । |
इति चतुर्दशीविधिरपि ।
"स्वाध्यायवियुजो घस्राः कृष्णप्रतिपदादयः । |
इति कालादर्शादिधृतवृद्धगार्ग्यवचनात्सर्वेषां नैमित्तिकानध्यायानां कृष्णप्रतिपदादिनित्यानध्यायानां च प्रायश्चित्तोपनयनपरतैव नापूर्वोपनयनपरता । वियुजो विषमाः । घस्रा दिनानि । स्वाध्यायवियुजो दिवसास्तृतीयापञ्चमीसप्तमीनवम्येकादशीत्रयोदश्यन्ताः प्रायश्चित्तोपनयन उपयुज्यन्त इत्यर्थः ।
अमावास्या त्वत्रापि निषिद्धैव--
"अमावास्या तु सर्वत्र निन्दिता शुभकर्मणि" इति वचनात् ॥ |
अपरार्के--
"नष्टे चन्द्रेऽष्टमे शुक्रे निरंशे भास्करे तथा । |
निरंशस्वरूपं ज्योतिर्निबन्धे--
"राशेः प्रथमभागस्थो निरंशः सूर्य उच्यते" इति । |
अत्रिः--
"पराजितेऽतिनीचस्थे नीचे शुक्रे गुरौ तथा । |