एतस्या आहुतेर्देवो मित्रः सूर्योऽथवा स्मृतः ।
पूर्वं च समिदाधानाच्छ्वासरोधो यथाबलम् ॥ १६५ ॥
वरदानं प्रकुर्वीत व्याहृत्युच्चारणं तथा ।
नित्यहोममुपस्थानं व्याहृतीभिस्तथैव च ॥ ६६ ॥
होमशेषं समाप्याथ मैत्रसौर्यचरू स्मृतौ ।
वक्ष्ये होमस्य विच्छेदे प्रायश्चित्तमथाधुना ॥ ६७ ॥
अयाश्चेत्याहुतिः कार्या विच्छेदेऽर्वाक्त्रिरात्रतः ।
मनस्वत्या द्वितीया स्यादर्वाक्चेत्सप्तरात्रतः ॥ ६८ ॥
तन्तुमत्या तृतीया स्यादर्वाक्चेद्द्वादशाहतः ।
तत्रापि होमविच्छेदे पुनराहितिरेव तु ॥ ६९ ॥
जुहुयात्प्रतिसंख्याय वैतान्होमान्महापदि ।
ऊर्ध्वं चेदेष आपत्तावपि कल्पो न युज्यते ॥ १७० ॥
खण्डस्याऽऽक्षेपकत्वेऽपि वस्तुतः प्रबलत्वतः ।
श्रौतमेव भवेच्चित्तं नाया इत्यादिकं भवेत् ॥ ७१ ॥
तद्धि शास्त्रान्तरोक्तत्वाद्दुर्बलं नात्र युज्यते ।
श्रौतं चित्तं तदधुना सुस्पष्टं संप्रवक्ष्यते ॥ ७२ ॥
द्वयोस्त्रयाणामेकस्य वा होमस्यातिपातनम् ।
सप्तहोतृमनस्वत्यौ जुहुयात्तदनन्तरम् ॥ ७३ ॥
समाचरेदतिक्रान्तं होमं नेत्यपरे जगुः ।
एवमेव प्रातरौपासनहोमं समाचरेत् ॥ ७४ ॥
चतुर्थ्यादिषु षष्ठान्तेष्वेकस्य ह्यतिपातनम् ।
सप्तान्तेष्विति केचित्तु बुधाः प्राहुः पुरातनाः ॥ १७५ ॥
द्वयोस्त्रयाणां सर्वेषां वा स्यात्तन्तुमते चरुः ।
अष्टमादिष्वपि चरुरेव तान्तुमतो भवेत् ॥ ७६ ॥
अत ऊर्ध्वमतिक्रामे भवेत्तु पुनराहुतिः ।
उतैकाहमिति श्रुत्यैकाहं वा द्व्यहमेव च ॥ ७७ ॥
होमातिपत्तौ चित्तं न भवेत्कैश्चिदितीरितम् ।
यद्यस्तमितविभ्रान्त्या जुहुयादस्वकालके ॥ ७८ ॥
साङ्गो होमः पुनः कार्यस्तस्मिन्नेवानले ततः ॥
जातत्वान्न पुनः कार्यं प्रादुष्करणमत्र तु ॥ ७९ ॥
होमानन्तरमग्नेस्तु भवतं न उपस्थितिः ।
एवमेवोदितभ्रान्तौ प्रायश्चित्तं प्रकीर्तितम् ॥ १८० ॥