पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/११३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रायश्चित्तसंग्रहकारिकाः]
१०९
संस्काररत्नमाला ।

ऊर्ध्वं प्रादुष्कृतेर्होमात्पूर्वं स्वामी समाचरेत् ।
भक्षणं चेद्धुतेः पूर्वं तस्मिन्नेवानले ततः ॥ ८१ ॥
कुर्याद्व्रातपतस्थालीपाकं स्या[१]द्वाऽऽहुतिद्वयम् ।
यत्ते वयं यथा हेति होममन्त्रौ प्रकीर्तितौ ॥ ८२ ॥
समिधौ वा समादध्यादथवा प्रजपेदिमौ ।
पत्न्यामप्येवमेवेदं प्रायश्चित्तं प्रकीर्तितम् ॥ ८३ ॥
अतिसंकटतः प्रातर्होमो यदि न जायते ।
तदैतस्मिन्दिने स्वामी भोजनं न समाचरेत् ॥ ८४ ॥
सायंहोमे तु तद्रात्रौ भोजनं न समाचरेत् ।
एतावता होमसिद्धिः प्रायश्चित्तं न हीष्यते ॥ १८५ ॥
पूर्वाहुतेश्चेदुपरि स्कन्दः स्यादुत्तराहुतेः ।
तदा यत्रेत्यृचा वह्नौ वानस्पत्याभिधानया ॥ ८६ ॥
आदध्यात्समिधं पश्चात्स्कन्नशेषेण तूत्तराम् ।
तूष्णीं हुत्वाऽऽहुतिं सर्वं होमशेषं समापयेत् ॥ ८७ ॥
पुनर्होमं ततः कुर्यादभिहोमेऽप्यदो भवेत् ।
उत्तराहुतिपर्याप्तद्रव्यसत्त्वे भवेन्न हि ॥ ८८ ॥
औपासनाहुतिद्रव्ये वृष्टिबिन्दुः पतेद्यदि ।
उपसाद्य हविः कूर्चे प्राकृतां समिदाहितिम् ॥ ८९ ॥
कृत्वा जपेद्व्याहृतीस्तु तेनैव हविषा ततः ।
मित्रो जनान्कल्पयतीत्यनया प्रथमाहुतिः ॥ १९० ॥
उत्तराहुतिहोमादिहोमशेषं ततश्चरेत् ।
ततः संकल्पप्रभृतिपुनर्होमं समाचरेत् ॥ ९१ ॥
प्रादुष्करणकालस्यातिक्रमे सर्वचित्तकम् ।
औपासनाहुतौ स्याच्चेद्द्वितीयाहुतिविस्मृतिः ॥ ९२ ॥
समाप्तेः कर्मणः प्राक्सा होतव्याऽन्तरिताऽऽहुतिः ।
उत्तरं चेत्स्मृतिः सर्वचित्तमेव न चाऽऽहुतिः ॥ ९३ ॥
आद्याहुतेर्विस्मृतौ तु कृत्स्नं होमं पुनश्चरेत् ।
स्वकाले यद्यनारम्भः स्यादाद्यौपासनाहुतेः ॥ ९४ ॥
तदा परेद्युः सायं स्यात्सप्तहोत्राहुतिस्तथा ।
मनस्वत्या द्वितीया स्यात्ततो होमं समारभेत् ॥ १९५ ॥


  1. ग. घ. ङ. स्यादाहु ।