कृतमवहतम् । अकृतमनवहतम् ।
होमान्ते वह्निपूजनमुक्तं स्मृत्यन्तरे--
“गन्धपुष्पादिभिर्वह्निं होमान्ते परिपूजयेत्” इति । |
गन्धपुष्पादिभिरित्यनेन पूर्वोपचारनिवृत्तिः क्रियते । बहिरग्निमनुलक्षीकृत्य पूजयेत् ।
"त्रिभिश्चैव चतुर्भिश्च पञ्चभिः षड्भिरङ्गुलैः । |
इति स्मृत्यन्तरे देशविशेषनियमोक्त्या पूजनबहिर्भावस्याप्युक्तत्वात् । शिष्टानां संप्रदायोऽप्येवम् । आगमशास्त्रे त्वग्नावेव पूजोक्ता । अयं प्रकारो वैदिकैर्नानुष्ठीयत इदानीम् । अग्निपूजन आरक्तगन्धपुष्पादि वर्जयेदित्यभियुक्ताः । दिव्यप्रकरणस्थाग्निपूजने रक्तगन्धपुष्पविधानात्तत्र न रक्तगन्धपुष्पनिषेधः । एतेन ज्ञायतेऽन्यत्राऽऽरक्तगन्धपुष्पनिषेध इति[१] । इदं चाऽऽरक्ताक्षताद्युपलक्षणम् ।
भस्मधारणं ब्रह्माण्डपुराणे--
"स्नात्वा पुण्ड्रं मृदा कुर्याद्धृत्वा चैव तु भस्मना । |
अत्राग्नियजमानयोर्मध्ये केनाप्यन्तरागमने कृते तत्प्रायश्चित्तमुच्यते ।
तत्र पराशरप्रायश्चित्तकाण्डम्--
"द्वौ विप्रौ ब्राह्मणाग्नी वा दंपती गोद्विजोत्तमौ । |
एतदकर्मकालविषयम् ।
कर्मकाले तु विशेषस्तत्रैव--
"होमकाले तथा दोहे स्वाध्याये दारसंग्रहे । |
अग्निमुखप्रयोगः ।
अथ प्रयोगः--कर्ताऽऽचम्य प्राणानायम्य पञ्चप्रस्थसिकताभिः शर्करास्थ्यादिवर्जिताभिः शुक्लाभिरनार्द्राभिर्होमानुसारेण हस्तमात्रमर्थपरिमाणाभिः
- ↑ क. ख. ति । भ ।