पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८०
[अग्निमुखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

सिकताभिर्बाहुमात्रमधिकं वा समचतुरश्रं प्राक्प्रवणमुदक्प्रवणं प्रागुदक्प्रवणं समं वा प्राक्प्रवणाद्यन्यतम एव देशे सुश्लक्ष्णं स्थण्डिलं विदध्यात् । प्राक्प्रवणत्वपक्षे पञ्चाङ्गुलोच्छ्रायः पश्चात्पुरस्ताच्चतुरङ्गुलोच्छ्रायः । उदक्प्रवणत्वपक्षे तर्जनीमध्यमान्यतरोर्ध्वाङ्गुलिप्रमाणं त्रेधा विभज्य तदेकांशपरिमितमंशं वर्धयित्वा तदंशचतुर्थांशं स्वचतुस्त्रिंशांशोनं तत्र संयोज्य तावत्परिमितोच्छ्रायो दक्षिणत ऊर्ध्वाङ्गु[१]लिप्रमाणोच्छ्राय उत्तरतः । उदक्प्रवणत्वपक्षे प्राक्प्रवण[२]त्वपक्षवदेव वोच्छ्रायः । प्रागुदक्प्रवणत्वपक्ष उत्तरदिशः प्रागर्धे पूर्वस्या दिश उत्तरार्धे चतुरङ्गुल उच्छ्रायः । इतरप्रदेशे पञ्चाङ्गुल उदक्प्रवणपक्षवद्वा । ततस्तत्स्थण्डिलमक्षतारङ्गवल्ल्यादिभिः परितोऽलंकृत्य गोमयेनोपलिप्य शुद्धोदकेन प्रोक्ष्यैकं फलं पुष्पं पर्णं कुशं वा[३] ताम्रशकलयुतं गृहीत्वा तेन स्थण्डिलमध्यप्रदेशे प्रादेशमात्रीः षडङ्गुलान्तरालास्तिस्रः प्राचीरुदगपवर्गास्तथैव तिस्रश्चोदीचीः प्रागपवर्गा रेखा लिखित्वा तद्रेखालेखनसाधनमुत्तरतो निरस्याप उपस्पृश्य यस्मिन्कस्मिंश्चिन्महति पात्रे शुद्धोदकं गृहीत्वा तदर्धेन कृत्स्नं स्थण्डिलमवोक्षति । न्युब्जेन विरलमुष्टिना जलसेचनमवोक्षणम् । ततोऽवशिष्टमध जलमग्न्यायतनस्योत्तरतः पुरतो वोत्सिच्योदकस्पर्शप्रणीताप्रोक्षणपरिषेकादिकार्यार्थमन्यच्छुद्धमुदकं तस्मिन्नेव पात्र आनीय तत्पात्रं स्वस्योत्तरतः संस्थापयेत् । उत्सेचनाभावेऽप्यावश्यकत्वात्कार्यमेवेदम् । अवोक्षणपात्र आनयनं नास्ति तस्यैवाभावात् । ततोऽभ्र्याद्यन्यतमेन खनित्रेणोद्धत्यावोक्षति । उद्धननं सकृत्खनित्रप्रहरणमात्रम् । ततो वाग्यतो भूत्वा तैजसेनासंभवे लेपितेन नूतनेन मृन्मयेन वा पात्रयुग्मेन संपुटीकृत्य सुवासिन्या श्रोत्रियागारादभावे स्वगृहाद्वा प्रदीप्तबह्वङ्गारमयं निर्धूममग्निमाहृतं स्थण्डिलादाग्नेय्यां निधाय, समस्तव्याहृतीनां प्रजापतिः प्रजापतिर्बृहती, अग्निप्रतिष्ठापने विनियोगः । भूर्भुवः सुवरित्यात्माभिमुखं पाणिभ्यामुल्लिखितदेशे द्वितीयाविभक्त्यन्ततत्तत्कर्मप्रयुक्तनामोच्चारणपूर्वकमग्निं प्रतिष्ठापयामीति प्रतिष्ठापयेत् । प्रणवान्ताभिर्व्याहृतिभिः स्थापनपक्षे प्रजापतिर्बृहतीत्यनन्तरं, प्रणवस्य परब्रह्मर्षिः परमात्माऽग्निर्वा देवता दैवी गायत्री छन्द इत्यधिकम् । ततः प्रोक्षितेन्धनानि प्रक्षिप्य वेणुधमन्या प्रबोध्योत्थाय, जुष्टो दमूना इत्यस्य विश्वे देवा अग्निस्त्रिष्टुप्, प्रतिष्ठापिताग्न्युपस्थाने विनियोगः "ॐ जुष्टो दमूना० भोजनानि" । इत्यग्निमुपस्थायोपविश्य--चत्वारि शृङ्गेति मन्त्रस्य याज्ञिक्यो देवता उपनिषदोऽ


  1. ग. घ. ङ. ङ्गुलेर्यावान्विशेषस्तावत्प्रमा
  2. क. ख. णप ।
  3. ग. घ. ड. वा लेखनिकारूपसुवर्णरजतताम्रान्यतमशकलेन व्रीहियवान्यतरेण च युतमङ्गुष्ठोपकनिष्ठिकाभ्यां गृ ।