नार्थः । तेन सर्वदर्विहोमाणामिदमङ्गं नोपनयनस्यैव । यथा पुरस्तादितिवचनं पूर्वधर्मातिदेशार्थम् । मन्त्रान्तश्च मन्त्रान्तश्च मन्त्रान्तश्च मन्त्रान्ताः । तानन्वम स्थाः प्रासावीरिति संनमति । ये त्वनुमन्यस्वेति तानन्वम स्था इति । यस्तु प्रसुवेति तं प्रासावीरिति । यथा--अदितेऽन्वम स्थाः । अनुमतेऽन्वम स्थाः । सरस्वतेऽन्वम स्थाः । देव सवितः प्रासावीरिति । तत्र मन्त्रानित्येव सिद्धेऽन्तग्रहणं देव सवितः प्रसुवेति यावदुक्तमेव समग्रो नाऽऽदिग्रहणमितिख्यापनार्थम् ।
अत्र प्राक्परिषेचनात्केचन धर्मा उक्ता मातृदत्तेन--
"परिधीन्दर्व्याऽङ्क्त्वा परिस्तरणेभ्यः किंचिद्बर्हिरादाय तस्य दर्व्यामग्रमाज्यधान्यां मध्यं मूलं चेति प्रस्तरवत्तूष्णीमङ्क्त्वा तृणमपादाय प्रज्ञातं निधाय प्रस्तरवत्तूष्णीमनुप्रत्दृत्य[१] त्रिरङ्गुल्याऽन्ववदिश्य घ्राणं चक्षुः पृथिवीं च संस्पृश्य परिधीन्क्रमेण प्रहृत्य संस्रावेणाभिजुहोति । अथ परिषेकं कृत्वाऽग्रेणाग्निं प्रणीताः पर्याहृत्यापरेणाग्निं निधाय किंचिदुदकमासिच्य पूर्ववत्तूष्णीं मार्जयेत् । ततो ब्रह्मणे यथाश्रद्धं दक्षिणां ददाति ब्रह्मा प्रतिगृह्य प्रतिनिष्क्रामति" इति ॥
परिधिप्रहरणोत्तरं प्रयोगवैजयन्त्यां नित्यत्वेन प्रायश्चित्तहोम उक्तः--
अनाज्ञातत्रयं त्वं नो अग्ने स त्वं नो अग्ने यत इन्द्र भयामहे |
अत्र मूलं चिन्त्यम् । परिध्यञ्जनादयस्तूष्णींमार्जनान्ताः परिषेकरहिता धर्माः कृताकृताः । एवं प्रायश्चित्तहोमोऽपि । ब्रह्मणे दक्षिणादानं तु नियतमेव ।
"यो ह्यदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामोऽनायुरुर्वरा |
इति सूत्रकृतर्त्विग्भ्यो दक्षिणाया अप्रदाने दोषस्योक्तत्वात् । प्रक्षामो दग्धः । अनायुरित्यत्र यजमानो भवेदिति शेषः । उर्वरा भूमिः । समृद्धा सस्यवती । अत्र दक्षिणाविशेषस्यानुक्तत्वाद्यथाश्रद्धं हेम देयं गौर्वा ।
छान्दोग्यगोभिलगृह्ये तु--
"पूर्णपात्रं दक्षिणां ब्रह्मणे दद्यात्क सं चमसं वाऽन्नस्य पूरयित्वा |