आयास्याः शरद्वन्तः(न्ताः?) कौमण्डा दीर्घतमसः कारेणुपालयो वामदेवा औशनसाश्च ।
आयास्याः श्रोणि[१]वेधा मूढरथाः सत्य[२]कयो वैदेहाः कौमारवत्यास्तौण्डदर्भिर्दैवकिः सात्यमुग्रिः कौबाह्या बौभ्या नौकरिः स्वस्तैषकिः कीलाल[३]पिः कारुणपः क[४]टोरयः काशिवाजः साक्षीकः पार्थिवाः ।
इत्यायास्याः ।
तेषां त्रयः, आङ्गिरसायस्यगौतमेति ।
अथ शरद्वन्ताः ।
शरद्वन्ता आभिजिता रोहिण्याः क्षीरकरम्भाः सौमुचयः सौयामुना औपबिन्दवो र[५]हूगणा गणपा भाष[६]ण्याः क्षौलेया नैकरयः करभोगिण्याः सैन्धवा गालवाः साङ्गराः सौमिनयः पौ[७]ष्पिण्डवो भा[८]वलाः काण्डवाः कारोहाः काशवारयो मान्द्यर्था इषवो रोहितायना अङ्गारकाः क्रौलायनाः कास्तौ[९]र्ष्णयोऽरुणयः पार्थिवा मौदहायनाः स्कान्दाः सरावाः कौटिल्या वासमूलयो वासपुष्पयो वासस्तेवयो वासधूपयः काचाक्षयः क्ष[१०]या वारण[११]याः करेलय उतथ्या बोधयोनगाः सुगोमाक्षयः क्षीरषाष्टिकयो राद्धकर्णयः सौपुत्रयः सामलोमकयः पौष्कजितयो भागत्राश्चण्डाडकाः सुतपाः सुरैषिणो रोहिणायनयः क्रौष्टाय[१२]नय आरुणायनयः सौदामनयः कासोषाः कौशल्या रौहिणेयाः काराधनयो मूलपो वासवः पुष्पवन्तो याविका रेचय औप[१३]मान्याः ष्टैटिकाः शौनरयः शौलापयः खरिका नैकर्षयस्तोदेया वाल्वोटाः ।
इति शरद्वन्ताः ।
तेषां त्रयः, आङ्गिरसगौतमशारद्वन्तेति ।
अथ कौमण्डाः ।
कौमण्डा मामन्थरे[१४]षणा मांसुराक्षाः काष्ठरेखय आञ्जायना वाञ्जायनाः काक्षीवता औशिजा मासुरेखयो वाशियः ।
इति कौमण्डाः ।