पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[गोत्रप्रवरनिर्णयः]
४३३
संस्काररत्नमाला
(भारद्वाजाः(३))
 

 तेषां पञ्च, आङ्गिरसौतथ्यकाक्षीवतगौतमकौमण्डेति ।

 दीर्घतमसां पञ्च, आङ्गिरसौतथ्यकाक्षीवतगौतमदैर्घतमसेति । त्रयो वा,आङ्गिरसौतथ्यदैर्घतमसेति ।

[अथ कारेणुपालयः ।]

 कारेणुपालयो वास्तव्याः श्वेतीयाः पौञ्जिष्ठा औदजायना माधुक्षारा आजगन्धाः ।

इति कारेणुपालयः ।

 तेषां त्रयः, आङ्गिरसगौतमकारेणुपालेति ।

 वामदेवानां त्रयः। आङ्गिरसवामदेव्यगौतमेति । अन्त्ययोर्व्यत्ययो वा । आङ्गिरसवामदेव्यवार्हदुक्थेति वा ।


[ अथौशनसाः ।]

 औशनसा दिश्याः प्रशस्ताः सुरूपाक्षा महोदरा विकंहताः सुबुध्या निहता गुहः ।

इत्यौशनसाः ।

 तेषां त्रयः, आङ्गिरसगौतमौशनसेति ।

 अन्येऽपि । औतथ्यानां त्रयः, आङ्गिरसौतथ्यगौतमेति । औशिजानां त्रयः । आङ्गिरसौशिजकाक्षीवतेति[१]

 आयास्यौशिजानां पञ्च । आङ्गिरसायास्यौशिजगौतमकाक्षीवतेति । रहूगणानां त्रयः, आङ्गिरसराहूगणगौतमेति । सोमराजानां त्रयः, आङ्गिरससोमराज्यगौतमेति । बृहदुक्थानां त्रयः, आङ्गिरसबार्हदुक्थगौतमेति । कक्षीवतां पञ्च, आङ्गिरसौतथ्यगौतमौशिजकाक्षीवतेति । रायुवाणां त्रयः, आङ्गिरसरायुवगौतमेति । एषां सर्वेषां गौतमाङ्गिरसां परस्परमविवाहः । गौतमस्य व्रियमाणतया सत्तया वाऽनुवृत्तेः सगोत्रत्वात्प्रायेण द्वित्रि(त्र)प्रवरसाम्याच्च ।

इति गौतमाः ।

अथ भ(भा?)रद्वाजाः ।(३)

 ते चत्वारः[२] । भारद्वाजाः कपयो गर्गा रोक्षायणाश्च ।



  1. क. ति । अया ।
  2. ग. रः । भर ।