पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
४३१
संस्काररत्नमाला
(गोत्रप्रवरनिर्णयः, अङ्गिरसा.(२))
 

पिण्डिकाक्षा मौदायनाः कापिशायनाः शाडेयाः साक्षिता मित्रयत आपिशायनाः पाटिकायना मित्रयुवो दिवोदासाः ।

इति वाघ्र्यश्वाः ।

 मित्रयुव इति केचित् । दिवोदासा इत्यन्ये । एषामेको वाघ्र्यश्वेति । त्रयो वा, भार्गववाघ्र्यश्वदैवोदासेति [१]

 गृत्स(गार्त्स?)मदानां गार्त्समदेत्येकः प्रवरः । वैन्यवीतहव्यवाघ्र्यश्वगार्त्समदानां स्वस्वगणं हित्वा परस्परं पूर्वैश्च सह विवाहो भवत्येव । द्वित्रि(त्र)प्रवरसाम्याभावात् ।

 तदुक्तं स्मृत्यर्थसारे--

"यस्का मित्रयुवो वैन्याः शुनकाः प्रवरैक्यतः ।
स्वं स्वं हित्वा गणं सर्वे विवहेयुः परस्परम्" इति ॥

 अत्र यस्का मित्रयुवः शुनका इत्येकपक्षाभिप्रायम् । प्रवरैक्यतः स्वगणं हित्वेति संबन्धः । क्वचित्त्वधिकं गणद्वयमुक्तम् । वेदविश्वज्योतिषां त्रयः, भार्गववैदवैश्वज्योतिषेति । शाठरमाठराणां त्रयः, भार्गवशाठरमाठरेति । अनयोः परस्परं पूर्वैश्च विवाहः[२]

 मण्डनोऽपि--

"जमदग्निर्भरद्वाजो विश्वामित्रोऽत्रिगौतमौ ।
वसिष्ठः कश्यपोऽगस्तिरेषां येष्वनुवर्तनम् ॥
येषां तुल्यर्षिभूयस्त्वं नोद्वहन्ति मिथश्च ते" ॥

 इति परिभाषामुक्त्वाऽऽह--

" भृगूणां वीतहव्यात्प्राग्विवाहो न परस्परम् ।
वीतहव्यादयः स्वं स्वं गणं हित्वा परावरैः ॥
विवाहं कुर्वते सर्वे तेभ्यः प्राक्पठिता अपि ।
लौगाक्षीणां दिवोदासा वीतहव्याः सधर्मि[३]णः" इति ॥

इति भृगवः ।

अथाङ्गिरसः । (२)

 ते त्रि[४]विधाः । गौतमा भारद्वाजाः केवलाश्च । तत्र गौतमाङ्गिरसः सप्त ।



  1. ख. ङ. ति । वीतहव्यवैन्यगार्त्समदवाघ्र्यश्वानां ।
  2. ग ह । माण्ड ।
  3. ग. र्मिणाम्" इ।
  4. ड. त्रिधावि ।