पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
278
[२ अधि, ५ अध्या
पागण्य

 दुष्टश्चैको द्वाभ्यां नियन्तुं भेदोपग्रहं च गन्तुभिति ॥

348 3  समेनैकेन द्वाभ्यां हानाभ्यां वेति?-द्वाभ्यां हीनाभ्यां श्रेयः तौ द्विद्वि[१]कार्यसाधको वश्यौ च भवतः । कार्यसिद्धौ तु कृथार्था ज्यायसो गूढस्सापदेशमपसृजेत्[२] ।।

 अशुचेश्शुवृतात्तु प्रतीक्षेताविसर्जनात् ।
 सत्रादव[३] सरेऽभ्यत्तः[४] कळत्रमपनीय वा ।।

 समादपि हि लब्धार्थाद्विश्वस्तस्य भयं भवेत्[५]
 ज्यायस्त्वे चापि लब्धार्थः समो विपरिकल्प्यते ।।

 अभ्युच्चितश्चाविश्वास्यो वृद्धिश्चित्तविकारिणी।
 विशिष्टादयमप्यशं लब्ध्वा तुष्टमुखो व्रजेत् ।।

 अनंशो वा ततोऽस्याङ्के प्रगृह्य द्विगुणं हरेत् ।
 कृतार्थस्तु स्वयं नेता विसृजेत्सामवायिकान् ॥

 अपि जीयेत न जयेन्मण्डलेष्टस्तथा भवेत् ।

इति पाड्गुण्ये यातव्या मित्रयोराभिग्रहाचिन्ता क्षय

लोभविरागहेतवः प्रकृतीनां सामवायिक

विपरिमर्श पञ्चमोऽध्यायः.

आदितास्त्रिशतः



  1. तो हि द्वि.
  2. अपसवेत्
  3. दप.
  4. सरेद्यत्त.
  5. सोऽपि.