क्षीणाः प्रकृतयो लोभ लुब्धा यान्ति विरागताम्। 341 12
विरक्ता यान्त्यमित्रं वा भर्तारं घ्नन्ति वा स्वयम् ।।
तस्मातप्रकृतिनां क्षयलोभविरागकाराणानि नोत्पादयेत् । उत्पन्नानि वा सद्यः प्रतिकुर्वीत ।।
क्षीणा लुब्धा विरक्ता वा प्रकृतय इति ?--क्षीणाः पीडनोच्छेदनभयात् सद्यस्सिद्धिं[१] युद्धं निष्पतनं वा रोचयन्ते । लुब्धा लोभनासन्तुष्टाः परोपजापं लिप्सन्ते । विर- क्ताः पराभियोगमभ्युत्तिष्ठन्ते । तासां हिरण्यधान्यक्षय : सर्वोपघाती कृच्छ्रप्रतीकारश्च ; युग्यपुरुषक्षयो हिरण्यधान्यसाध्यः ; लोम ऐकदेशिको मुख्यायुत्तः[२] परार्थेषु शक्यः, प्रतिह. न्तुमादातुं वा विरागः प्रधानावग्रहसाध्यः ; निष्प्रधाना हि प्रकृतयो भोग्या भवन्त्यनुपजाप्याश्वान्येषामनापत्सहास्तु प्रकृति- मुख्यप्रग्रहैस्तु बहुधा भिन्ना गुप्ता भवन्त्यापत्सहाश्च ॥
सामवायिकानामपि सन्धिविग्रहकारणान्यवेक्ष्य शक्तिशौचयुक्तौ सम्भूय यायात् । शक्तिमान् हि पार्ष्णिग्रहणे[३] यात्रासाहाय्यदाने वा शक्तः ; शुचिस्सिद्धौ चासिद्धौ च यथा. स्थितकारीति ॥
तेषां ज्यायसैकन द्वाभ्यां समाभ्यां वा सम्भूय यातव्य- मिति?-द्वाभ्यां समाभ्यां श्रेयः; ज्यायसा ह्यवगृहीतश्चरति
समाभ्यामतिसन्धानाधिक्ये वा । तौ हि सुखौ भेदायितुम् ।