निर्विचारवैशारयेऽध्यात्मप्रसादः ॥ ४७॥ |
अशुद्धयावरणमलापेतस्य प्रकाशात्मनो बुद्धिसत्त्वस्य रजस्त- |
"प्रज्ञाप्रसादमारुह्य अशोच्यः शोचता जनान् ।। |
ऋतंभरा तत्र प्रज्ञा ॥४८॥
तस्मिन्समाहितचित्तस्य या प्रज्ञा जायते तस्या
ऋतंभरेति
संज्ञा भवति । अन्वर्था च सा, सत्यमेव बिभर्ति न च तत्र
विपर्यासज्ञानगन्धोऽप्यस्तीति । तथा चोक्तम्-~-
" आगमेनानुमानेन ध्यानाभ्यासरसेन च । |
समापत्तयो ग्रहीतग्रहणयोश्चतस्र इत्यष्टौ सिद्धा भवन्तीति । निगदन्याख्यात
भाष्यम् ॥ ४६॥
चतसृष्वपि समापत्तिषु ग्राह्यविषयासु निर्विचारायाः शोभनत्वमाह-निर्विचारवै-
शारोऽध्यात्मप्रसादः। वैशारद्यपदार्थमाह-अशुद्धीति । रजस्तमसोरुपचयोऽशुद्धिः
सैवाऽऽवरणलक्षणो मलस्तस्मादपेतस्य प्रकाशात्मनः प्रकाशस्वभावस्य बुद्धिसत्त्वस्यात
एवानभिभूत इति । स्यादेतंदग्राह्यविषया चेत्समापत्तिः कथमात्मविषयः प्रसाद इत्यत
आह-भूतार्थविषय इति । नाऽऽमविषयः किंतु तदाधार इत्यर्थः । क्रमाननुरोधी
युगपदित्यर्थः । अत्रैव पारमर्षी गाथामुदाहरति-तथा चेति । ज्ञानालोकप्रकर्षेणाऽऽत्मानं
सर्वेषामुपार पश्यन्दुःखत्रयपरीताशोचतो जनाञ्जानाति ॥ ४७ ॥
अत्रैव योगिजनप्रसिद्धान्वर्थसंज्ञाकथनेन योगिसंमतिमाह-ऋतंभरा नत्र प्रज्ञा ।
सुगम भाष्यम् । आगमेनेति वेदविहितं श्रवणमुक्तम् । अनुमानेनेति मननम् । ध्यानं
चिन्ता । तत्राभ्यासः पौनःपुन्येनानुष्ठानम् । तस्मिन्नस आदरः । तदनेन निदिध्यासन-
मुक्तम् ॥ ४८॥