एतत् पृष्ठम् परिष्कृतम् अस्ति
५२ . वायस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि-[ १ समाधिपादे-
सा पुन:-
श्रुतानुमानप्रज्ञाश्यामन्यरि-
पया विशेषार्थत्वात् ॥१९
श्रुतमागमविज्ञानं तत्सामान्यविषयम् । न ह्यागमेन शक्यो
विशेषोऽभिधातु, कस्मात् , न हि विशेषेण कृतसंकेतः शब्द इति ।
तथाऽनुमान सामान्यविषयमेव । यत्र माप्तिस्तत्र गतिर्यत्राप्राप्ति-
स्तत्र न भवति गतिरित्युक्तम् । अनुमानेन च सामान्येनोपसं-
हारः । तस्माच्छृतानुमानविषयो न विशेषः कश्चिदस्तीति ।
न चास्य सूक्ष्मव्यवहितविप्रकृष्टस्य वस्तुनो लोकमत्यक्षेण
स्यादेतत् । आगमानुमानगृहीतार्थविषया भावना प्रकर्षलब्धजन्मा. निर्विचाराऽऽगमा- नुमानविषयमेव गोचरयेत् । न खत्वन्यविषयानुभवजन्मा संस्कारः शतोऽन्यत्र ज्ञानं जनयितुमतिप्रसङ्गात् । तस्मान्निर्विचारा चेहतभराऽऽगमातुमानयोरपि तत्प्रसङ्ग इत्यत. आह -श्रुतानुमानेत्यादि । बुद्धिसत्त्वं हि प्रकाशस्त्रभावं सर्वार्थदर्शनसमर्थमपि, तमसाऽऽवृतं यत्रैव रजसोद्घाटयते तत्रैव गृह्णाति । यदा स्वभ्यासवैराग्याभ्यामपास्तरजस्त. मोमलमनवयवैशारदमुद्योतते तदाऽस्यातिपतितसमस्तमानभेयसीम्नः प्रकाशानन्ये सति मि. नाम यन्न गोचर इति भावः । ब्याचष्टे-श्रुतमागमाविज्ञानं तत्सामान्यविषयम् । कस्मात् । न ह्यागमन शस्यो विशेषोऽभिधातुम् । कुतो यस्मादानन्याद्वयभिचाराच न विशेषेण कृतसंकेतः शब्दः । यस्मादस्य विशेषेण सह वाच्यवाचकसंबन्धः प्रेतीयेत न च वाक्यार्थोऽपाद्दशो विशेषः संभवति । अनुमानेऽपि लिङ्गलिङ्गिसंबन्धग्रहणाधीनजन्मनि गतिरेषेवैत्याह-तथाऽनुमानमिति । यत्र प्राप्तिरित्यत्र यत्रतत्रशब्दयो। स्थानपरिवर्तनेन व्याप्यन्यापकभावोऽवगमयितव्यः । अतोऽत्रानुमानेन सामान्येनोपसंहारः । उपसंहरति- तस्मादिति । अस्तु तर्हि संबन्धग्रहानपेक्षं लोकप्रत्यक्षं न तस्सामाग्यविषयमित्यत आह-न चास्येत्यादि । मा भूत्संबन्धनहाधीनं लोकप्रत्यक्षम् । इन्द्रियाधीनं तु भवत्येव । न चेन्द्रियाणामस्मिन्नस्ति योग्यतेत्यर्थः । ननु च यद्यागमानुमानप्रत्यक्षागौचरो विशेष.
१ ख. स. पयभा' । २ क. 'हन वा । ३ क. मतीयते । ४ क. क्यार्थेऽपी ।
५ख.झापामा