पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[ १ समाधिपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-


                  सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् ॥ ४५ ॥
               पार्थिवस्याणोर्गन्धतन्मात्रं सूक्ष्मों विषयः । [१]आप्यस्य रस-
             तन्मात्रम् । तैजसस्य रूपतन्मात्रम् । वायवीयस्य स्पर्शतन्मात्रम् ।
             आकाशस्य शब्दतन्मात्रमिति । तेषामहंकारः । अस्यापि लिङ्ग-
             मात्रं सूक्ष्मो विषयः । लिङ्गमात्रस्याप्यलिङ्गं सूक्ष्मो विषयः । न
             चालिङ्गात्परं सूक्ष्मयस्ति । नन्वस्ति पुरुषः सूक्ष्म इति । सत्यम् ।
             यथा लिगाव्परमलिङ्गस्य सौक्ष्न्यं न चैवं पुरुषस्य । किंतु,
             लिङ्गस्यान्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति ।
             अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥

                   ता एव सबीजः समाधिः ॥ ४६ ॥
                 
              ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि
           सबीजः । तत्र स्थूलेऽर्थे सवितर्को निर्वितर्कः, सूक्ष्मेऽर्थे सवि-
           चारो निर्विचार [२]इति चतुर्धोपसंख्यातः समाधिरिति ॥ ४६ ॥


 किं भूतसूक्ष्म एव ग्राह्यविषया समापत्तिः समाप्यते । न । किंतु--सूक्ष्मविषयत्वं चालिङ्गपर्यवसानम् । पार्थिवस्य परमाणोः संवन्धिनी या गन्धतन्मात्रता सा समा- पत्तेः सूक्ष्मो विषयः । एवमुत्तरत्रापि योज्यम् । लिङ्गमात्रं महत्तत्त्वं तद्धि लयं गच्छति प्रधान इति । अलिङ्गं प्रधानं तद्धि न व्कहिल्लयं गच्छतीत्यर्थः । अलिङ्गपर्यवसानत्व- माह--न चालिङ्गात्परमिति । चोदयति-ननु पुरुषोऽपि सूक्ष्मो नालिङ्गमेवेत्यर्थः । परिहरति-सत्यमिति । उपादानतया सौ‌‍‍‍‍क्ष्म्यमलिङ्ग एव नान्यत्रेत्यर्थः । तत्र पुरुषार्थ- निमित्तत्वान्महदहंकारादेः पुरुषोऽपि कारणमलिङ्गवदिति । कुत [३]एवंलक्षणमलिङ्गस्यैव सौ‌‍‍‍‍क्ष्म्य- भित्याशयवान्पृच्छति--किं ‌त्विति । उत्तरमाह --लिङ्ग‌स्येति । सत्यं कारणं न तृपादानम् । यथा हि प्रधानं महदादिभाषेन परिणमते न तथा पुरुषस्तद्धेतुरपीत्यर्थः । उप- संहरति--अतः प्रधान एव सौक्ष्म्यं निरतिशयं व्याख्यातम् ॥ ४५ ॥

 चतसृणामपि समापत्तीनां ग्राह्यविषयाणां संप्रज्ञातत्यमाह--ता एव सबीजः समाधिः । एवकरो भिन्नक्रमः सबीज इत्यस्यानन्तरं द्रष्टव्यः । ततश्चतस्त्रः समां- पत्तयो ग्राह्यविषयाः सबीजतया नियम्पन्ते । सबीजता घनियता ग्रहीतृग्रहणगो- चरायामपि समापत्तौ विकल्याविकल्पभेदेनानिपिद्धा व्यवतिष्ठते । तेन ग्राह्ये चतस्रः


  १ क. ख. च. छ. प्यस्यापि र । २ क. ख. च. छ. 'ति । स च । ३ क, ज एतलक्ष

  1. क. ख. च. छ. प्यस्यापि र
  2. क. ख. च. छ. 'ति । स च
  3. क, ज एतलक्ष