काठकसंहिता (विस्वरः)/वचनम् ०९

विकिस्रोतः तः
← अष्टमं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (नवमं वचनम् )
[[लेखकः :|]]
दशमं वचनम्  →
रोहितानुवचनम्

अथ नवमं वचनम्।

रोहितानुवचनम्।
रोहितो धूम्रलोहितः कर्कन्धुरोहितस्ते प्राजापत्या बभ्रुररुणबभ्रुश्शुकबभ्रुस्ते रौद्राश्श्येतश्श्येताक्षश्श्येतग्रीवस्ते पितृदेवत्यास्तिस्रः कृष्णा वशा वारुण्यस्तिस्रश्श्वेता वशास्सौर्यो मैत्राबार्हस्पत्या धूम्रललामास्तूपराः ॥१॥

पृश्निस्तिरश्चीनपृश्निरूर्ध्वपृश्निस्ते मारुताः फल्गुर्लोहितोर्णी बलक्षी तास्सारस्वत्यः पृषती क्षुद्रपृषती स्थूलपृषती ता वैश्वदेव्यस्तिस्रश्श्यामा वशाः पौष्ण्यस्तिस्रो रोहिण्यो वशा मैत्र्य ऐन्द्राबार्हस्पत्या अरुणललामास्तूपराः ।।२।।

शितिबाहुरन्यतश्शितिबाहुस्समन्तशितिबाहुस्त ऐन्द्रवायवाश्शितिरन्ध्रोऽन्यतश्शितिरन्ध्रस्समन्तशितिरन्ध्रस्ते मैत्रावरुणाश्शुद्धवालस्सर्वशुद्धवालो मणिवालस्त आश्विनास्तिस्रश्शिल्पा वशा वैश्वदेव्यस्तिस्रश्श्येनीः परमेष्ठिने सौमापौष्णाश्श्यामललामास्तूपराः ॥३॥

उन्नत ऋषभो वामनस्त ऐन्द्रावरुणाश्शितिककुच्छितिपृष्ठश्शितिभसत् त ऐन्द्राबार्हस्पत्याश्शितिपाच्छित्योष्ठश्शितिभ्रूस्त ऐन्द्रावैष्णवास्तिस्रस्सिध्मा वशा वैश्वकर्मण्यस्तिस्रो धात्रे पृषोदराः पौष्णाश्श्येतललामास्तूपराः ॥४॥

कर्णास्त्रयो यामास्सौम्यास्त्रयश्शितिङ्गा अग्नये यविष्ठाय त्रयो नकुलास्तिस्रो रोहिण्यस्त्रियव्यस्ता वसूनां तिस्रोऽरुणा दित्यौह्यस्ता रुद्राणाँ सौमेन्द्रा बभ्रुललामास्तूपराः ॥५॥

शुण्ठास्त्रयो वैष्णवा अधीलोधकर्णास्त्रयो विष्णव उरुक्रमाय लप्सुदिनस्त्रयो विष्णव उरुगायाय पञ्चाव्यस्तिस्र आदित्यानां त्रिवत्सास्तिस्रोऽङ्गिरसामाग्नेन्द्राः कृष्णललामास्तूपराः ॥६॥

इन्द्राय राज्ञे त्रयश्शितिपृष्ठा इन्द्रायाधिराजाय त्रयश्शितिककुद इन्द्राय स्वराजे त्रयश्शितिभसदस्तिस्रस्तुर्यौह्यस्साध्यानां तिस्रः पष्ठौह्यो विश्वेषां देवानामैन्द्रावैष्णवा गौरललामास्तूपराः।।७॥

अदित्यै त्रयो रोहितैता इन्द्राण्यै त्रयः कृष्णैताः कुह्वै त्रयोऽरुणैतास्तिस्रो धेनवो राकायै त्रयोऽनड्वाहस्सिनीवाल्या आग्नावैष्णवा रोहितललामास्तूपराः ॥८॥

सौम्यास्त्रयः पिशङ्गास्सोमाय राज्ञे त्रयस्सारङ्गाः पार्जन्या नभोरूपास्तिस्रोऽजा मल्हा इन्द्राण्यै तिस्रो मेष्य आदित्या द्यावापृथिव्या मालङ्गास्तूपराः ॥९॥

वारुणास्त्रयः कृष्णललामा वरुणाय राज्ञे त्रयो लोहितललामा वरुणाय रिशादसे त्रयोऽरुणललामाश्शिल्पास्त्रयो वैश्वदेवास्त्रयः पृश्नयस्सर्वदेवत्या ऐन्द्रासौराश्श्यामललामास्तूपराः ॥१०॥ [२९९२]


॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे रोहितानुवचनं नाम नवमं वचनं संपूर्णम् ॥९॥