काठकसंहिता (विस्वरः)/वचनम् १०

विकिस्रोतः तः
← नवमं वचनम् काठकसंहिता (विस्वरः)
अश्वमेधः (दशमं वचनम् )
[[लेखकः :|]]
एकादशं वचनम्  →
सोमानुवचनम्

अथ दशमं वचनम्।

सोमानुवचनम् ।
सोमाय स्वराजेऽनोवाहा अनड्वाहा इन्द्राग्निभ्यामोजोदाभ्यामोष्टारा इन्द्राग्निभ्यां बलादाभ्याँ सीरवाहा अवी द्वे धेनू भौमी दिग्भ्यो वडवे द्वे धेनू भौमी वैराजे पुरुषी द्वे धेनू भौमी वायव आरोहणवाहा अनड्वाहौ वारुणी कृष्णे वशे आराड्यौ दिव्या ऋषभौ परिमरौ ॥१॥

एकादश प्रातर्गव्याः पशव आलभ्यन्ते छगलः कल्माषः किकिदिवीविदीगयस्तौ त्वाष्ट्रौ सौरीर्नव श्वेता वशा अनूबन्ध्या भवन्त्याग्नेय ऐन्द्राग्न आश्विनस्ते विशालयूप आलभ्यन्ते ॥२॥

पिशङ्गास्त्रयो वासन्तास्सारङ्गास्त्रयो ग्रैष्माः पृषन्तस्त्रयो वार्षिकाः पृश्नयस्त्रयश्शारदाः पृश्निसक्थास्त्रयो हैमन्तिका अवलिप्तास्त्रयश्शैशिरास्संवत्सराय निवक्षसः ॥३॥

वसन्ताय कपिञ्जलानालभते ग्रीष्माय कलविङ्कान् वर्षाभ्यस्तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककाराञ्छिशिराय विकरान् ॥४॥

गायत्री त्रिष्टुब्जगत्यनुष्टुप् पङ्क्त्या सह । बृहत्युणिहा ककुप् सूचीभिश्शिम्यन्तु त्वा ॥
द्विपदा या चतुष्पदा त्रिपदा या च षट्पदा ।
सच्छन्दा या च विच्छन्दास्सूचीभिश्शिम्यन्तु त्वा ।
महानाम्नी रेवतयो विश्वा आशाः प्रसूवरीः ।
मेध्या विद्युतो वाचस्सूचीभिश्शिम्यन्तु त्वा ॥
रजता हरिणीस्सीसा युजो युज्यन्ते कर्मभिः ।
अश्वस्य वाजिनस्त्वचि सूचीभिश्शिम्यन्तु त्वा ॥
नारीस्ते पत्नयो लोम विचिन्वन्तु मनीषया ।
देवानां पत्नीर्विशस्सूचीभिश्शिम्यन्तु त्वा ॥
कुविदङ्ग ॥५॥

कस्त्वा छ्यति कस्त्वा विशास्ति कस्ते गात्राणि शिम्यति ।
क उ ते शमिता कविः॥
ऋतवस्त ऋतुथा परुश्शमितारो विशासतु ।
संवत्सरस्य धायसा शिमिभिश्शिम्यन्तु त्वा ॥
दैव्या अध्वर्यवस्त्वा छ्य॑न्तु वि च शासतु ।
गात्राणि पर्वशश्शिमाः कृण्वन्तु शिम्यन्तः ॥
अर्धमासाः परूँषि ते मासाश्छ्यन्तु शिम्यन्तः ।
अहोरात्रान्ति मरुतो विलिष्टँ सूदयन्तु ते ॥
पृथिवी तेऽन्तरिक्षेण वायुच्छिद्रं भिषज्यतु ।
द्यौस्ते नक्षत्रैस्सद रूपं कृणोतु साध्या ॥
शं ते परेभ्यो गात्रेभ्यश्शमस्त्ववरेभ्यः ।
शमस्थभ्यो मज्जेभ्यश्शमु ते तन्वे भुवन् ॥६॥[३००८]

॥ इति श्रीयजुषि काठके चरकशाखायामश्वमेधनामनि पञ्चमे ग्रन्थे सोमानुवचनं नाम दशमं वचनं संपूर्णम् ॥१०॥