पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[ अ० २क्ष्लो०१७]
४५
श्रीमद्भगवद्गीता ।


अतः सदेव वस्तु मायाकल्पितासनिवृत्त्याऽमृतत्वाय कल्पते सन्मात्रदृष्ट्या चे तितिक्षाऽप्युपपद्यत इति भावः ॥ १६ ॥

 श्री० टी०-ननु तथाऽपि शीतोष्णादिकमतिदुःसहं कथं सोढव्यम्, अत्यन्तं तत्सहने च कदाचि[१]दात्मनाशस्यापि संभवादित्याशङ्कय तत्त्वविचारतः सर्वं सोढुं शक्यमित्याशयेनाऽऽह---नेति । असतोऽनात्मधर्मत्वादविद्यमानस्य शीतोष्णादेरात्मनि भावः सत्ता न विद्यते । तथा सतः सत्स्वभावस्याऽऽत्मनोऽभावो विनाशो न विद्यते । एवमुभयोः सदसतोरन्तो निर्णयो दृष्टः । कैस्तत्वदर्शिभिर्वस्तुयाथात्म्यावद्भिः । एवंभूतविवेकेन सहस्वेत्यर्थः ॥ १६ ॥

 म० टी०-नन्वेतादृशस्य सतो ज्ञानाद्भेदे परिच्छिन्नत्वापत्तेर्ज्ञानात्मकत्वमभ्युपेयम् । तच्चानाध्यासिकमन्यथा जडत्वापत्तेः । तथा चानाध्यासिकज्ञानरू[२]पस्य सतो धात्वर्थत्वादुत्पत्तिविनाशवत्वं घटज्ञानमुत्पन्नं घटज्ञानं नष्टमिति प्रतीतेश्च । एवं चाहं घटं जानामीतिप्रतीतेस्तस्य साश्रयत्वं सविषयत्वं चेति देशकालवस्तुपरिच्छिन्नत्वात्स्फुरणस्य कथं तद्रूपस्य सतो देशकालवस्तुपरिच्छेदशून्यत्वमित्याशङ्कयाऽऽह-

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ॥
विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ॥ १७॥

 विनाशो देशतः कालतो वस्तुतो वा परिच्छेदः सोऽस्यास्तीति विनाशि परिच्छिन्नं तद्विलक्षणमविनाशि सर्वप्रकारपरिच्छेदशून्यं तु एव तत्सद्रूपं स्फुरणं त्वं विद्धि जानीहि । किं तत् , येन सद्रूपेण स्फुरणेनैकेन नित्येन विभुना सर्वमिदं दृश्यजातं स्वतः सत्तास्फूर्तिशून्यं ततं व्याप्तं स्वसत्तास्फूर्त्यध्यासेन रज्जुशकलेनेव सर्पधारादि स्वस्मिन्समावेशितं तदविनाश्येव विद्धीत्यर्थः । कस्मात् , यस्माद्विनाशं परिच्छेदमव्ययस्यापरिच्छिन्नस्यास्यापरोक्षस्य सर्वानुस्यूतस्य स्फुरणरूपस्य सतः कश्चित्कोऽपि आश्रयो वा विषयो वेन्द्रियसंनिकर्षादिरूपो हेतुर्वा न कर्तुमर्हति समर्थो न भवति कल्पितस्याकल्पितपरिच्छेदकत्वायोगात् । आरोपमात्रे चेष्टापत्तेः । अहं घटं जानामात्यत्र हि अहंकार आश्रयतया भासते घटस्तु विषयतया । उत्पात्तविनाशवती काचिदहंकारवृत्तिस्तु सर्वतो विप्रसृतस्य सतः स्फुरणस्य व्यञ्जकतया, आत्ममनोयोगस्य परैरपि ज्ञानहेतुत्वाभ्युपगमात् । तदुत्पत्तिविनाशेनैव च तदुपहिते स्फुरणरूपे सत्युत्पत्तिविनाशप्रतीत्युपपत्तेर्नैकस्यं स्फुरणस्य[३] स्वतउत्पत्तिविनाशकल्पनाप्रसङ्गः, ध्वन्यवच्छेदेन शब्दवद्घटाद्यवच्छेदेनाऽऽकाशवच्च । अहंकारस्तु तस्मिन्नध्यस्तोऽपि तदाश्रयतया


  1. क. अ. "चिद्देहना” ।
  2. क. च. छ. ज. झ. ञ. पत्वस्य ।
  3. च. ज. “स्य सत ।