पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
[अ० २ क्ष्लो० १६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-

विकारो नामधेयं मृत्तिकेत्येव सत्यम्' इत्यादिश्रुतिस्तु विकारमात्रस्य व्यभिचारिणो वाचारम्भणत्वेनानृतत्वं दर्शयति । अनेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजोमूलमन्विच्छ तेजसा सोम्य शृङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” इति श्रुतिः सर्वेषामपि विकाराणां सति कल्पितत्वं दर्शयति । सत्त्वं च न सामान्यं तत्र मानाभावात् । पदार्थमात्रसाधार[१]ण्या[२]त्सत्सदितिप्रतीत्या द्रव्यगुणकर्ममात्रवृत्तिसत्त्वस्य स्वानुपपादकस्याकल्पनात् । वैपरीत्यस्यापि सुवचत्वात् । एकरूपप्रतीतेरेकरूपविषयनिर्वाह्यत्वेन संबन्धभेद[३]स्य [४]स्वस्वरूपसत्त्वस्य च कल्पयितुमनुचितत्वात् । विषयस्याननुगमेऽपि प्रतीत्यनुगमे जातिमात्रोच्छेदप्रसङ्गात् । तस्मादेकमेव सद्वस्तु स्वतःस्फुरणरूपं ज्ञाताज्ञातावस्थाभासकं स्वतादात्म्याध्यासेन सर्वत्र सद्व्यवहारोपपादकम् । सन्घट इति प्रतीत्या तावत्सद्वयक्तिमात्राभिन्नत्वं घटे विषयीकृतं न तु सत्तासमवायित्वमभेदप्रतीतेर्भेदघटितसंबन्धनिर्वाह्यत्वात् । एवं द्रव्यं सट्टणः सन्नित्यादिप्रतीत्या सर्वाभिन्नत्वं सतः सिद्धम् । द्रव्यगुणादिभेदासिद्व्या च न तेषु धर्मिषु सत्त्वं नाम धर्मः कल्प्यते किं तु सति धर्मिणि द्रव्याद्यभिन्नत्वं लाधवात् । तच्च वास्तवं न संभवतीत्याध्यासिकमित्यन्यत् । तदुक्तं वार्तिककारैः---

"सत्तातोऽपि न भेदः स्याद्द्रव्यत्वादेः कुतोऽन्यतः ।
एकाकारा हि संवित्तिः सद्द्र्व्यं सन्गुणस्तथा " इत्यादि ॥

 सत्ताऽपि नासतो भेदिका तस्याप्रसिद्धेः । द्रव्यत्वादिकं तु सद्धर्मत्वा[५]न्न सतो भेदकमित्यर्थः । अत एव घटाद्भिन्नः पट इत्यादिप्रतीतिरपि न भेदसाधिका घटपटतद्भेदानां सदभेदेनैक्यात् । एवं यत्रैव न भेदहस्तत्रैव लब्धपदा सती सदभेदप्रतीतिर्विजयते । तार्किकैः कालपदार्थस्य सर्वात्मकस्याभ्युपगमात्तेनैव सर्वव्यवहारोपपत्तौ तदतिरिक्तपदार्थकल्पने मानाभावात्तस्यैव सर्वानुस्यूतस्य सद्रूपेण स्फुरणरूपेण च सर्वतादात्म्येन प्रतीत्युपपत्तेः । स्फुरणस्यापि सर्वानुस्यूतत्वेनैकत्वान्नित्यत्वं विस्तरेणाग्रिमश्लोके वक्ष्यते । तथाच यथा कस्मिंश्चिद्देशे काले वाडटस्य पटादेर्न देशान्तरे कालान्तरे वा घटत्वम् । एवं कस्मिाश्चिद्देशे काले वा घटस्यान्यत्राघटत्वं शक्रेणापि न शक्यते संपादयितुं पदार्थस्वभावभङ्गायोगात् । एवं कस्मिंश्चिद्देशे काले वाऽसतो देशान्तरे कालान्तरे वा सत्त्वं कस्मिंश्चिद्देशे काले वा सतोऽन्यत्रीसत्त्वं न शक्यते संपादयितुं युक्ति[६]साम्यात् । अत उभयोर्नियतरूपत्वमेव द्रष्टव्यमित्यद्वैतसिद्धौ विस्तरः ।


  1. ङ. "रण्येन सत्स
  2. क. "ण्या सत्सदि
  3. ज. °भेदाय स्वस्वरूत्वस्य च ।
  4. क. ग. छ. स्वरूपस्य । घ. ङ. छ. स्वरूपत्वस्य । झ. स्वरूपात्वस्य स ।
  5. छ. त्वान्नास ।
  6. क सामान्यात् ॥