अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । |
इति ॥ ५ ॥
मे० टी०-ननु भिक्षाशनस्य क्षत्रियं प्रति निषिद्धत्वाद्युद्धस्य च विहितत्वात्स्वधर्मत्वेन युद्धमेव तव श्रेयस्करमित्याशङ्कयाऽऽह-
न चैतद्विद्मः कतरन्नो गरीयो |
एतदपि न जानीमो भै[१]क्षयुद्धयोर्मध्ये कतरन्नोऽस्माकं गरीयः श्रेष्ठं किं [२] मैक्षं हिंसाशून्यत्वादुत युद्ध स्वधर्मत्वादिति । इदं च न विद्म आरब्धेऽपि युद्धे यद्वा वयं जयेमातिशयीमहि यदि वा नोऽस्माञ्जयेयुर्धार्तराष्ट्राः । उभयोः साम्यपक्षोऽप्यर्थाद्बोद्धव्यः । किं च जातोऽपि जयो नः फलतः पराजय एव । यता यान्बन्धून्हत्वा जीवितुमपि वयं नेच्छामः किं पुनर्विषयानुपभोक्तुं त एवावस्थिताः संमुखे धार्तराष्ट्रा धृतराष्ट्रसंबन्धिनो भीष्मद्रोणादयः सर्वेऽपि । तस्माद्भै[३]क्षाद्युद्धस्य श्रेष्ठत्वं न सिद्धमित्यर्थः । तदेवं प्राक्तनेन ग्रन्थेन संसारदोषनिरूपणादधिकारि विशेषणान्युक्तानि । तत्र “ न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे" इत्यत्र रणे हतस्य परिव्राटसमानयोगक्षेमत्वोक्तेः " अन्यच्छ्योऽन्यदुतैव प्रेयः' इत्यादिश्रुतिसिद्धं श्रेयो मोक्षाख्यमुपन्यस्तम् । अर्थाच्च तदितरदश्रेय इति नित्यानित्यवस्तुविवेको दर्शितः, न काङ्क्षे विजयं कृष्णेत्यत्रैहिकफलविरागः, अपि त्रैलोक्यराज्यस्य हेतोरित्यत्र पारलौकिकफलविरागः, नरके नियतं वास इत्यत्र स्थलदेहातिरिक्त आत्मा, किं नो राज्येनेति व्याख्यातवर्मना शमः, किं भोगैरिति दमः यद्यप्येते न पश्यन्तीत्यत्र निर्लोभता, तन्मे क्षेमतरं भवेदित्यत्र तितिक्षा, इति प्रथम यार्थः संन्याससाधनसूचनम् । अस्मिंस्त्वध्याये श्रेयो भोक्तुं भै[४]क्षमपीत्यत्र भिक्षाचर्योपलक्षितः संन्यासः प्रतिपादितः । गुरूपसदनमिदानीं प्रतिपाद्यते समधिगतसं- सारदोषजातस्यातितरां निर्विणस्य विधिवद्रुमुपसन्नस्यैव विद्याग्रहणेऽधिकारात् ॥६॥
श्री० टी०-किं च यद्यपि अधर्ममङ्गी करिष्यामस्तथाऽपि किमस्माकं जयः पराजयो वा भवेदिति न ज्ञायत इत्याह-न चेति । एतद्वयोर्मध्ये नोऽस्माकं कतरत्किं नाम गरीयोऽधिकतरं भवतीति न विद्मः । तदेव द्वयं दर्शयति-यद्वैतान्वयं जयेम