पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०
[ अ० २क्ष्लो०५ ]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 गुरूनहत्वा परलोकस्तावदस्त्येव । अस्मिस्तु लोके तैर्हतराज्या[१]नां नो नृपादीनां निषिद्ध भैक्ष[२] मपि भोक्तं श्रेयः प्रशस्यतरमुचितं न तु तद्वधेन राज्यमपि श्रेय इति [३]धर्भेऽपि युद्धे वृत्तिमात्रफलत्वं गृहीत्वा पापमारोप्य ब्रूते । नन्ववलिप्तत्वादिना तेषां गुरुत्वाभाव उक्त इत्याशङ्कयाऽऽह-महानुभावानिति । महाननुभावः श्रुताध्ययनतपआचारादिनिबन्धनः प्रभावो येषां तान् । तथा च कालकामादयोऽपि यैर्वशीकृतास्तेषां पुण्यातिशयशालिनी नावलिप्तत्वादिक्षुद्रपाप्मसंश्लेष इत्यर्थः । हिमहानुभावानित्येकं वा पदं, हिमं जाड्यमपहन्तीति हिमह आदित्योऽग्निर्वा तस्येवानुभावः सामर्थ्यं येषां तान् । तथा चातितेजस्वित्वात्तेषामवलिप्तत्वादिदोषो नास्येव ।

"धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा इत्युक्तेः ॥

 ननु यदाऽर्थलुब्धाः सन्तो युद्धे प्रवृत्तास्तदैषां विक्रीतात्मनां कुतस्त्यं पूर्वोक्तं माहात्म्यं, तथा चोक्तं भीष्मेण युधिष्ठिरं प्रति--

"अर्थस्य पुरुषो दासो दासत्वर्थो न कस्यचित् ।
इति सत्यं महाराज बद्धोऽस्म्यर्थेन कौरवैः

 इत्याशङ्कयाऽऽह---हत्वेति । अर्थलुब्धा अपि ते मदपेक्षया गुरुवो भवन्त्येवेति पुनर्गुरुग्रहणेनोक्तम् । तुशब्दोऽप्यर्थे । ईदृशानपि गुरून्हत्वा भोगानेव भुञ्जीय नतु मोक्षं लभेय । भुज्यन्त इति भोगा विषयाः कर्मणि घन् । ते च भोगा इहैव न परलोके । इहापि च रुधिरप्रदिग्धा इवापयशोव्याप्तत्वेनात्यन्तजुगुप्सिता इत्यर्थः । यदेहाप्येवं तदा परलोकदुःस्वं कियद्वर्णनीयमिति भावः । अथवा गुरून्हत्वाऽर्थकामात्मकान्भोगानेव भुञ्जीय नतु धर्ममोक्षावित्यर्थकामपदस्य भोगविशेषणतया व्याख्यानान्तरं द्रष्टव्यम् ॥ ५ ॥

 श्री० टी०---तहिं तव देहयात्राऽपि न स्यादिति चेत्तत्राऽऽह--- गुरूनिति । गुरून्द्रोणादीनहत्वा परलोकविरुद्धो गुरुवधस्तमकृत्वेह लोके भिक्षान्नमपि भोक्तुं श्रेय उचितम् । विपक्षे तु न केवलं परत्र दुःखमिहैव तु नरकदुःखमनुभवेयमित्याह----इवेति । गुरून्हत्वेनैव तु रुधिरेण प्रदिग्धान्प्रकर्षेण लिप्तानर्थकामात्मकान्भोगानहं भुञ्जीयाश्नीयाम् । यद्वा-अर्थकामानिति गुरूणां विशेषणम् । अर्थतृष्णाकुलत्वादेते तावद्युद्धान्न निवर्तेरन् । तस्मादेतद्वधः प्रसज्येतैवेत्यर्थः । तथाच युधिष्ठिरं प्रति भीष्मेणोक्तम्----


  1. घ. “ज्यानाभस्माकं न” ।
  2. क. ख. ग. घ. ङ. ञ. मैक्ष्यम' ।
  3. ग. इ. ज. अ. अम्बैंपि ।