राकागमसहिते चन्द्रालोके- किं नृत्यसि समालोच्य चेतश्चञ्चललोचनाः ।। मुखेमामान्तरीमाशां त्वं मन्ये विहरिष्यसि ॥ अत्र ‘प्रहासे च मन्योपपदे मन्यतेत्तम एकवच्चेति सूत्रेण युष्मदस्मदोर्योगे उत्तम मध्यमयोर्विपर्ययेण विधानं प्रहासब्याकम् । पूर्व शिपातल्य यथा- ते केचिदीश्वरप्रख्याः पुरुष वसुधातले । येषु लब्धफलैववर्या पराक्रमनयस्थितिः ॥ अन्न अधिकाऽच्त्वेऽपि पराक्रमस्य पूर्धनिपातेनावश्यकत्वरूपमभ्यर्हितत्वं व्यङ्ग्यम्। पपदस्य यथा- . . अयोधि राम ! दिवस सैन्यैः सह तवारिभिः । भवास्तु दिवसेनैकेनाऽयुद्ध, तदिहाऽद्भुतम् ॥ अत्र द्वितीयतृतीयाभ्याम् ‘अत्यन्तसंयोगे द्वितीया 'अपवणे तृतीयेति विहिताभ्यां युदव्यासिरूपः क्लेशो भवत्पदार्थयुदफलजयप्राप्तिश्च व्यज्यते। अपवर्गल्य फलप्राप्तिरूप [त्वात् । प्रकृत्येकदेशस्य यथा-- | अनङ्गरूपप्रतिम नायके वीक्ष्य भामिनी ।। | अनङ्गशरसेविदा मुहुस्ताम्यत्यहो(१)कैः ॥ । अत्र प्रत्ययरूपतद्धितेऽनाल्पर्थिकेन अनुकम्पातिशयो व्यज्यते । एवं प्रायुप- सर्वोऽपि प्रकर्षादिबोधकः । क्वचित्समुचिताना'व्यञ्जकत्वं यथा- | रामोऽसौ विक्रमगुणैः प्रसिद्धो भुवनेष्विह । जानाति नो चेद् देवस्तमस्मद्भाग्यविपर्ययात् ॥ अत्रभुवनरूपप्रातिपदिकस्य बहुवचनस्य च । किच्चाऽस्मद्भाग्येत्यत्र न त्वद्भाग्येति कृतम्, तेनाऽस्मदित्यस्य बहुवचनसिद्धतया साक्षेपकत्वम् । तथा ‘भाग्यविपर्ययादित्य न्यथासम्पत्तिसुखेनोकम् , न स्वभाग्यादित्यभावमुखेन । अतस्तथा विधानेनाऽभाग्य विरहेऽपि, ‘भाग्यान्येव तादृशत्वेन परिणतानोति व्यज्यते । एवम् इमनिचादीनाम्, | तरुणिमनि कलयति कलामजुमदनधनुर्धवोः पठस्यने । अधिवसति सकलललनामौलिमिर्यं 'चकितहरिणनयना ॥ । अत्र "तरुणिमनीतीमनिचस्तरुणत्वपदेन, अनुमदनधनुरित्यव्ययीभावस्य धनुः समीप इत्यनेन, ‘मौलिमधिवसतीति कर्मभूताधारस्य च मौलौ वसतीत्यर्थेन तौल्येऽपि वाचकत्वेऽस्ति कश्चित्स्वरूपस्य विशेषो, यश्चमत्कारकारी, स एव व्यञ्जकः । तत्र त्व, शब्देन प्रकृतेः प्रौढत्वं व्यज्यते, इमनिचा तु तद्वयतिरेको नवत्वम् । धनुःसमीप इत्यत्र धनुषोऽत्यन्तं गुणीभावः । अव्ययीभावे तु पूर्वपदार्थप्राधान्येऽप्युत्तरपदार्थस्य किञ्चि- देवाप्राधान्यम् । कर्मभूताधारस्थले तु व्याप्तिरवगम्यत इत्यवसेयम् । एवमन्येषामपि बोध्यम् । वाक्यगत:वूकम् । प्रबन्धगतं नाटकादौ । वर्णगतं रचनागतं च वृत्तिनिरूपणे
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१८७
दिखावट