पञ्चमी मयूखः । १३ = = = = = अन्यत्रे तु-
- अन्योपमानलाभेन वण्र्यस्याऽनादरश्च तत् ।
अले गर्वेण ते वक्त ! कान्त्या चन्द्रोऽपि तादृशः ॥ वयॊपमेयलाभेन तथान्यस्याप्यनादरः ।। कः क्रौर्यदर्पस्ते मृत्यो ! त्वत्तुल्याः सन्तिः हि स्त्रियः । वण्येनान्यस्योपमाया अनिष्पत्तिवचश्च तत् । सुधाऽपवादो मुग्धाक्षि ! त्वन्मुखानं किलाम्बुजम् ॥ अत्रोपमानहीनत्वकयनम्, प्रतीपोपमायां तपमानस्योपमेयत्वकथनमिति तयो- भेदः ॥ १०० ॥ उल्लासालङ्करमाह- उल्लासोऽन्यप्राहम्ना चेद्दोष ह्यन्यत्र वण्र्यते ।। तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् ॥ १०१ ॥ उल्लास इति। अन्यमहिम्ना अन्यगुणेनाऽन्यत्र दोषवर्णनमुल्लासः । इदमुपलक्षणम् । अन्यदोषेणान्यरुणकथने दोषेण दोषकथने गुणेन गुणकथने च उल्लासालङ्कार इत्यपि ज्ञेयम् । आयोदाहरण मूले । सज्जनमहिना धनस्य तदनाश्रयणे दोषः । द्वितीयोदा: हरणम्-‘लाभोऽयमेव भूपालसेवकानां न चेद्वधः ।। राज्ञः क्रौर्यदोषेण सेवकानां वधा. भावी गुणः । यथा वा- सानन्दमेष मकरन्दमिहारविन्दे विन्देत षट्पदयुवेति जनैरटङि। दैवादकाण्डपरिमुद्रितपुण्डरीक कोशादभुदहह ! निसरणं पुमर्थः ॥ अत्र निःसरणे गुणत्वज्ञानं कमलदोषपूर्वकम् । तृतीयस्य- काठिन्य कुचयोः अष्टु वाञ्छन्त्यः पादपद्मयोः । निन्दन्ति च विधातारं त्वदाटीवरियोषितः ॥ अन्न पलायनार्थमपेक्षित पादयोः कठिन्यमकृत्वा कुचयोः काठिन्धं कृतवतो विधेः पदमावदोषेण दोषः । चतुर्थे तु- परदारपरद्रव्यपरद्रोहपरामुखः ।। गङ्गा ब्रूते कदाऽऽगत्य मामयं पावयिष्यति ॥-॥१०१॥ तद्गुणालङ्कारमाह-- तद्गुणः स्वगुणत्यागे स्वस्मिन्परगुणोदयः । पद्मरागारुणं नासामौक्तिकं तेऽधराश्रितम् ।। १०२ ||