पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ राकागमसहिते चन्द्रालीके- | इत्यादौ समुच्चयः । अम्र योगस्त्रिधा । सयोगः असद्योगः सदसद्योगश्चेति । तत्र सद्योगो मूले उक्तः । असद्योगो द्वितीयोदाहरणे । सदसद्योगो यथा- शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः । प्रभुधनपरायणः सततर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥ अत्र शशिप्रभुतीनां शोभनवं खलस्याऽशोभनत्वमिति सदसयोगः । यद्वा शशि- प्रभृतीनां स्वतः शोभनत्वं धूसरवादीनां त्वशोभनत्वमिति । 'अहं प्रथमिकाभाजामेक- कार्यान्वयेऽपि सः । समुच्चय इत्यर्थः ॥ १७ ॥ समाध्यलारमाह- समाधिः कार्य सौकर्य कारणान्तरसन्निधेः ।। उत्कण्ठतां च कलयन जगामाऽस्तं च भानुमान् ॥ ९८॥ समाधिरिति । कार्योत्पत्तिक्षमकारण सत्वेऽप्यविलम्बेन कार्योत्पादककारणान्तर- कथने समाधिः । तेन समुच्चयोद्धेदः । उत्कण्ठारूपकारणसत्वेऽपि सूर्यास्तकथनात् । प्रत्यनीकालङ्कारमाह- प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः ।। जैत्रनेत्रानुगौ कणवृत्पलाभ्यामधः कृतौ ॥ ९९ ॥ प्रत्यनौकमिति । शत्रुपराभवाऽक्षमेण शत्रुसम्बद्धपराभववर्णने प्रत्यनीकालकुरिः ।। नेत्रजयशककमलैनंबानुगकर्णपराभवकथनात् । यथा वा--- जितस्त्वदायेन विधु स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः । तवेति मत्वा यदि तज्जितं मया न मोक्षसङ्कल्पधराः किलाऽमराः ॥ वयं तु-“शत्रुपक्षीयेण शत्रुपक्षीयस्यानिष्टकरणेऽपि प्रत्यनीकालङ्कारः । यथा- हृत् तस्य यन्मन्त्रयते रहस्त्वां तद् व्यकममन्त्रयवे मुख यत् ।। तद्वैरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥32-॥१९॥ प्रतीपालङ्कारमाह- प्रतीपमुपमानस्य हीनत्वमुपमेयतः ।। दृष्टं चेद् वदनं तस्याः किं पचेन किपिन्दुना ।। १०० ॥ प्रतीपमिति । उपमेयापेक्षयोपमानस्य हीनताकथने प्रतीपमित्यर्थः। किं पनैति लक्ष्यम् । काकुना कार्याभावकथनेन हीनताकथनात् । यो वा-- अकय पत्ये खलु तिष्ठमाना भ्रमितमक्षिभिसबुकलौ । भीमुखल्य नियमम्बुजियो याचन्ति विस्तारितपअहस्ताः ॥