पञ्चमो मयूखः । अत्र शब्देन विरोधपरिहारे विरोधाभासः, तदभावे शुद्धो विरोधालारः । काव्यप्रकाशदर्पणयोस्तु विरोधाभास एवोको न विरोधालङ्कारः ॥ ७९ ॥ असम्भवालङ्कारमाह- असम्भवोऽर्थनिष्पत्तावसम्भाव्यत्वर्णनम् । को वेद गोपशिशुकः शैळमुत्पाटयिष्यति ॥ ७६ ॥ असम्भव इति । अर्थ निष्पत्तौ सत्य तस्या असम्भावितत्वेन कथनेऽसम्भवा- ऽलङ्कारः । को वेदेति लक्ष्यम् । यथा वा- कमठपृष्ठकठोरमिदं धनुर्ललितमूतिरसौ रघुनन्दनः । कथमधिज्यमनेन विधीयतामहह ! तात ! पणतव दारुणः (१) ॥ यथा वा- उल्लास्यता स्पृष्टनलाङ्गमङ् तासां नलच्छायपिबाऽपि दृष्टिः । अश्मैव रत्यास्तदनति पत्या छेदेऽव्यबोधं यदहर्षि लोम ॥-॥ ७६ ॥ विभावनालङ्कारमाह- विभावना विनापि स्यात्कारण कार्यजन्म चेत् ।। पश्य लाक्षारसाऽसिक्तं रक्तं त्वञ्चरणद्वयम् ॥ ७७ ॥ विभावनेति । कारणेन विना कार्योत्पत्तिकथने विभावनालङ्कारः । लाक्षारसेन असिमिति समासः । लक्षारससेकरूपकारणं विनैव रक्तत्वरूपकार्यकथनम् । यथा वा- अस्माकं सखि ! वाससी न रुक्केि शैवेयके नोज्ज्वलं नो वक्री गतिरुदतं न हसितं नैवास्ति कश्चिन्मदः । किन्त्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ अन्यत्र-तूलामसत्वे कार्योत्पत्तिश्च सा मता । इयं विशेषोकिरिति इण्डी । ‘कार्योत्पत्तिस्तृतीया स्यात्सल्यपि प्रतिबन्धके । यथा- धनिनोऽपि निरन्मादी युवानोऽपि न चलीः । प्रभवोऽप्यप्रमत्तास्ते कियन्तः सन्ति भूतले ॥ यथा वा- तमोमयीकृत्य दिशः परागैः स्मरेषवः शक्रडशी दिन्ति । | कुहुगिरअचुपुट द्विजस्य राकारजन्यामपि सत्यवाचम् ॥ अत्र राकारजनिः प्रतिबन्धिका । 'अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना । यथा-शाद्वीणानिनादोऽयमुदेति महदद्भुतम् । ‘विरुद्वात्कार्यसम्पत्तिष्टा काचिदू (१)पथमिदं -पुस्तके नास्ति ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१४०
दिखावट