पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राकागमसहिते चन्द्रालोके- व्यङ्गयाक्षेपो यथा--- लोकाः स्तुवन्तु भुवि भूधरधारणेन कर्माऽद्भुतं भगवता विहितं स्वयं यत् । लज्जामहे वयमतीव यदस्य भृत्यै- | राकाशवर्मनि धुता गिरयोऽतिकायाः ॥-॥ ७३ ॥ विरोधालङ्कारमाह- विरोधोऽनुपपत्तियेद् गुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् ॥ ७४ ।। विरोध इति । आदिना जातिः । गुणद्रव्यकियाजातीनां सम्बन्धानुपपत्तिकथने विरोधालाः । तत्र जातेणद्रव्यक्रियाजातिभिः, गुणस्य गुणद्रव्यक्रियाभिः, क्रियायाः क्रियाद्व्याम्या, द्रव्यस्य द्रव्येणेति दश प्रकाराः । अमन्देति लक्ष्यम् । तत्रामन्दता गुणः, चन्दनत्वं जातिः, चन्दनं द्रव्यम् , स्यन्दः प्रस्रवणा क्रिया, तेषां दाहकत्वविरो- धात् । इदं चतुर्ण क्रियाविरोध उदाहरणम् । यथा वा- निन्दामि किं मलयचन्दनगन्धवाही । किं वा सुधाकिरणधाम तिरस्करोमि । चूतः स्वहस्तसलिलैः परिषिञ्चितो(१)ऽयं | मां पापिनीं दहति हन्त ! नवाङ्रेण ॥ अर्थ द्रव्यस्य । गुणक्रिययोर्यथा- मूल्य नाम्ना च कृष्णस्तदुपरि यमुनाकूलनीरे विहारः । किञ्च श्यामाभिरभिः कुवलयदलहरबल्लवीभिः प्रसङ्गः । कुजे ध्वान्तैकपुञ्जे तदपि विहरण केशभूषा शिखण्डै- स्तस्मादस्माकमन्तस्तिमिरततिहतिं वकि वेदोऽपि चित्रम् ॥ एवमन्यान्यप्युदाहरणानि बोध्यानि ॥ ७४ ॥ विरोधाभासमाह- श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता । अप्यन्धकारिणा तेन जगदेतत्प्रकाश्यते ।। ७५ ।। श्लेषादीति । श्लेषेण विरोधपरिहारफळकविरोधभाने विरोधाभास इत्यर्थः । अप्यन्धकारिणेति लक्ष्यम् । अन्नान्धकारवता जगत्प्रकाशनस्य; विरुदत्वाद्विरोध. भानम् । अन्धकरिपुत्वेन महादेवमाने तत्परिहारः । यथा वा- प्रतीपभूपैरिव किं ततो भिया विरुद्धधमैरपि भेत्तृतोज्झिता ।। अमित्रजिन्मित्रजिदोजसा स यदू विचारहकू चारडगप्यवर्तत ॥