पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमो मयूखः । १९ स आक्षेप इत्यर्थः । यथा- द्वारि स्तम्भनिषण्णया मलिनया वक्रीकृतग्रीवया नासाग्रगतबाष्पबिन्दुनिकरैः संसिध्यमानाङ्गयो । मन्युस्तम्भितकण्ठगद्दगिरा प्रोच्चारिताक्षर | सन्दिष्टं तव कान्तया पथिक हे ! वक्तुं न तत्पर्यते ॥ अत्र 'मरिष्यतिइत्यस्याशक्यवक्तव्यत्वम् । अयमुकविषयः । वक्ष्यमाणविषयः-- कथ्यते न कतमः स इति त्वं मां विवक्षुरसि किं चलदोष्ठः । अर्धवर्मनि रुणत्सि न पृच्छा निर्गमेण न परिश्रमयैनाम् । अतिप्रसिद्धत्वज्ञानफलको यथा-- किं ब्रमः शशिनो भाग्य हरस्य शिरसि स्थितिः । अभाग्यमपि किं झूमस्तत्राप्यपरिपूर्णता ॥ इति । यथा वा--- ब्रूमः किमस्य वरवणिनि ! वीरसेनो- झूति द्विषद्लविजित्वरपौरुषस्य । सेनाचरीभवदिभाननदानवारि- | वासेन यस्य जनिता सुरभी रणश्रीः ॥॥ ७२ ॥ गूढाक्षेपालङ्कारमाह- गूढाक्षे यो विधौ व्यक्ते निषेधे चाऽस्फुटे सति । हर सीतां सुखं, किन्तु चिन्तयाऽन्तकढौकनम् ॥ ७३ ॥ गुढाक्षेप इति । यत्र विधिनिषेधो वा स्फुटो निषेधो विधिश्चास्फुटतन्न गूढ- क्षेपः । हरेति रावणं प्रति मारीचोक्तिः । सुखमिति क्रियाविशेषणम् । किन्तु अन्त- कस्य ढौकने गति चिन्तये । ढीकृ गताविति धातुः । अन्तकगतिं चिन्तयेत्यनेन मृत्युप्रदर्शनेन निषेधस्यास्फुरत्वालक्ष्यत्वम् । अधं यथा- गच्छ गच्छसि चेत्कान्त ! पन्थानः सन्तु ते शिवः । ममापि जन्म तन्नैव भूयाद् यत्र गतो भवान् ॥ द्वितीयं यथा- मार्ग मा गा मुरारेव्रजकुलजवधूमार्गवज्राभिघातं तास्ताः साध्योऽपि वध्वः कति कति वनिता भ्रंशितास्तेन मार्गात् । मन्त्रं तन्त्रं न केषामपि न च मनुते तस्य चशीनिनादः संसारे हन्त ! तासां निपतति सलिलं याभिरालो कितोऽसौ ॥ १२