सामग्री पर जाएँ

पृष्ठम्:हितोपदेशः.djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
(४८)
[ हितोपदेशे-
 


 अथ राजपुत्रै सानन्दमुक्तम्- सर्व श्रुतवन्त सुखिनो वयम् । सिद्धं नः समीहितम् ।' विष्णुशर्मोवाच- एतावता भवतामभिलषित सम्पन्नम् । अपर- मपीदमस्तु---

मित्रं प्राप्नुत सज्जना जनपदैर्लक्ष्मीः समालम्ब्यताँ
भूपालाः परिपालयन्तु वसुधां शश्वत्स्वधर्मे स्थिताः ।
आस्तां मानसतुष्टये सुकृतिनां नीतिर्नवोदेव वः
कल्याणं कुरुतां जनस्य भगवॉश्चन्द्रार्धचूडामणिः ॥२२६॥

इति विष्णुशर्मसंगृहीते हितोपदेशे

मित्रलाभः प्रथमः ॥ १ ॥