पृष्ठम्:हितोपदेशः.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मित्रलाभः ] (४७) पुनरवमृश्याह--

  • शोकारातिभयत्राणं प्रीतिविश्रम्भभाजनम् ।

| केन रत्नामिदं स्मृष्टं मित्रमित्यक्षरद्वयम् ॥ २२३॥ किञ्च- मित्रं प्रीतिरसायनं नयनयोरानन्दनं चेतसः पात्रं यत्सुखदुःखयोः सह भवन्मित्रेण तदुर्लभम् । ये चान्ये सुहृदः समृद्धिसमये द्रव्याभिलाषाकुला- | स्ते सर्वत्र मिलन्ति तत्त्वनिकषावा तु तेषां विपत्२४ इति बहु विलप्य हिरण्यकश्चित्राङ्गलघुपतनकावाह-* यावदय व्याधो वनान नि सरति तावन्मन्थर मोचयितु यत्न क्रियताम् ।' तावूचनु -* सत्वर यथा कार्यमुपदिश ।' हिरण्यको ब्रूते- चित्राङ्गो जलसीपं गत्वा मृतमिवात्मान निश्चेष्ट दर्शयतु । काकश्च तस्योपरि स्थित्वा चञ्च्वा किमपि विलिखतु, नूनम- नेन मृगमासार्थना लुब्धकेन तत्र कच्छप पारित्यज्य सत्वर गन्तव्यम् । ततोऽहं मन्थरस्य बन्धनं छेत्स्यामि । सनिहिते लुब्धके भवद्भया पलायितव्यम् ।' अथ चित्राङ्गलघुपतनका-या शीघ्र गत्वा तथानुष्ठिते सति स व्याव श्रान्त पानीय पीत्वा तरोरवस्तादुपविष्टस्तथाविध मृगमपश्यत् । तत कच्छप जलसमीपे निधाय कतरिकामादाय प्रहृष्टमना मृगान्तिकं चलित । अत्रान्तरे हिरण्यकेनागत्य मन्थ- रस्य बन्धन छिन्नम् । स कूर्म सत्वर जलाशय प्रविवेश । स मृग आसन्न त व्याध विलोक्योत्थाय दुत पलायितः । प्रत्यावृत्य लुब्धको यावत्तरुतलमा- याति तावत्कर्ममपश्यन्नचिन्तयत्-‘उचितमेवैतन्ममासमीक्ष्यकारिण । यत - यो ध्रुवाणि परित्यज्य अधुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ॥ २२५ ॥ ततोऽसौ स्वकर्मवशानिराशः कटकं प्रविष्ट. । मन्थरादयः सर्वे मुक्तापदः स्वस्थानं गत्वा यथासुखमास्थिताः ॥