मपसर । नो चेद्धन्त-योऽसि मया । ' मार्जारोऽवदत्-* श्रूयता तावदस्मद्वच-
नम् । ततो यद्यह वपस्तदा हन्तव्य । यत -
जातिमात्रेण कि कश्चिद्धन्यते पूज्यते क्वचित् ।
व्यवहारं परिज्ञाय वध्यः पूज्योऽथ वा भवेत् ॥ ५९॥
गृध्रो ब्रूते- ‘ब्रहि । किमर्थमागतोऽसि १ ' सोऽवदत्- ‘अहमत्र गड़ातीरें नित्यस्नायी निरामिषाशी ब्रह्मचारी चान्द्रायणव्रतमाचरस्तिष्ठामि । यूय धर्मज्ञानरताः विश्वासमय इति पक्षिण सर्वदा ममाग्ने प्रस्तुवन्ति, अतो भवइयो विद्या- वयोवृद्धेभ्यो वम श्रोतुमिहागत , भवन्तश्चैतादृशा वर्मज्ञा यन्मामतिथि हन्तुमुद्यता ।
गृहस्थधर्मश्चैष -
अरावप्युचित कार्यमातिथ्यं गृहमागते ।।
छेत्तुः पार्श्वगत छायाँ नोपसंहरते हुमः ॥ ६० ॥
यदि वान नास्ति तदा प्रीतिवचसाप्यतिथि पूज्य एव । यत -
तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ ६१ ॥
अन्यच्च-
बालो वा याद वा वृद्धो युवा वा गृहमागतः ।
तस्य पूजा विधातव्या सर्वस्याभ्यागता गुरुः ॥ ६२ ॥
अपर च-
निर्गुणेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।
न हि संहरते ज्योत्स्ना चन्द्रश्चाण्डालवेश्मनः ॥ ६३ ॥
अन्यच्च-
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
स तस्मै दुष्कृतं दत्वा पुण्यमादाय गच्छति ॥६४ ॥
अन्यच्च-
उत्तमस्यापि वर्णस्य नीचोऽपि गृहमागतः ।
पूजनीयो यथायोग्यं सर्वदेवमयोऽतिथिः ॥६५॥'