चतुर्थों मयूखः । कोच्चारणविषयत्वरूपशब्दलेषादपि भेदेन प्रतीतेः । अर्थश्लेषां यथा वा- उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा | धृत्वा चान्येन चासो विलुलितकबरीभारसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाह लक्ष्म्याः पुनातु ॥ साहित्यदर्पणे तु-“श्लेषः क्रमकौटिल्याऽनुज्ज्वलत्वोपपत्तियोगरूपघटना। क्रमः क्रियासन्ततिः, विदग्धचेष्टितं कौटिल्यम् , अप्रसिद्धवर्णनाभावोऽनुज्ज्वलत्वम् , उपपादकक्रिया उपपत्तिः, एतत्प्रतिपादकसन्दर्भः श्लेषः । यथा- दृष्ट्वा कश्चित्प्रियतमे सहकासनसँस्थिते ।। | निमील्य नेत्रे कल्याश्चित् चुचुम्बान्यां रसाकुलः ॥ अन्न दर्शनादयः क्रियाः, उभयसमर्थनरूपं कौटिल्यम् , लोकव्यवहाराविरोधो. ऽनुज्ज्वलत्वम् , नेत्रनिमीलनादिकमुपपादकक्रियेति । इदमपि पूर्वोक्तश्लेषान्तर्गतमेव । अल्पप्राणाक्षरबाहुल्यरूपशैथिल्याभावः श्लेषः। स च वैदर्भरीत्यामाक्यको न गाड- रीत्याम् । तत्रानुप्रासमात्रस्य गुणत्वात् । तेन, 'ममालि ! मालती माला लोलाक्ति- कलिला यथाः इति गौडरीत्या काव्यमेव, वैदर्भीरीत्या तु न काव्यम् । किन्तु वैदर्भी- मलतीदाम लङघितं अमरै रिति’ काव्यम् ।” इति काव्यादर्शः ॥ १-२ ॥ यस्मादन्तःस्थितः सर्वः स्पष्टमर्थोऽवभासते । सळिलस्येव सूक्तस्य स प्रसाद इति स्मृतः ॥ ३ ॥ अस्मादिति । सूकस्यान्तःस्थितॊऽवभासते चमत्कारजनको भवति । स प्रसाद इत्यर्थः । एवं च प्रसादस्य वाक्यनिष्ठत्वमुक्तम् । अन्ये तु-गुणानां वक्ष्यमाणरीत्या रसधर्मत्वादन्तःस्थितोऽर्थों रसो भासते तदाकारा चित्तवृत्तिर्भवतीति यावत् । तेन रसे अदिति प्रतीयमानत्वं झटिति प्रत्यायकत्वं च रचनाय स्वच्छतारूपः प्रसाद इत्यर्थः । अयं च सरससाधारणः । तदुकम्- समर्पकत्वं काव्यस्य यतः सर्वरसान्प्रति । स प्रसादो गुणो ज्ञयः सर्वसाधारणक्रियः ॥ इति । शब्दार्थयोस्तु रखव्यञ्जकतया प्रसादवत्वमौपचारिकमित्याहुः । दण्डी तु-प्रसिद्धार्थत्वं प्रसादः । यथा--‘मलिनमपि हिमांशोक्ष्म लक्ष्मीं तनोतीति कल. वर्णनम् । अयं दाक्षिणात्यरीत्याम् । गौडरीत्या तु निन्दाप्रसिद्धत्वादिदं न वर्णनम् । किन्तु यथाऽनत्यर्जुनाऽब्जन्मसदृक्षाङ्को वलक्षगु(१)रति वर्णने युक्तमित्याह ॥ ३ ॥ ( १ ) अनत्यर्जुने नातिश्वेतमन्नीलम अब्जन्म कमलं तेन सदृक्षस्तुल्योऽङ्कः . कलङ्को यस्य तादृशो वलक्षगुश्चन्द्र इत्यर्थः ।
पृष्ठम्:चन्द्रालोकः (राकागमव्याख्यासहितः).djvu/८६
दिखावट