क्रूरक्लेशमहीरुहामुरुभरज्वालाजटालः शिखी |
वज्रमिति। ‘भृञ् धारणपोषणयोः' इति धातोर्महीं बिभ्रति ते तथा पृथ्वीधा- रकाः पर्वता इत्यर्थः। पापान्येवेत्यादि स्पष्टमेव । भवेति । भवः संसार एव गदो रोगः । ‘रोगव्याधिगदामयाः' इत्यमरः । यद्वा भवं जन्म आरभ्य यो गदः । जन्मरोगस्य दुर्निरसवात् । तस्याप्युदेकोऽतिरेकः । आधिक्य मिति यावत् । मिथ्येति । आरो- पितावियेत्यर्थः । सैव निशेत्यादिसरलमेव । तिग्मांशुः सूर्यः । मह्यां रुहन्तीति महीरुहास्तेषां वृक्षाणामित्यर्थः । ‘शिखावानाशुशुक्षणिः' इत्यमराच्छिखी अग्निः । निर्वृतीति । निर्गता वृतिरावरणं यस्याः सकाशोत्सा । अद्वैतचितिरूपमुक्तिरेव निर्वृतिः । शेषमतिरोहितमेव । एवं च भगवन्नाम्नः कृष्णेयात्मनः सकलपापा- जन्मरोगसकार्यकाविद्याधिभौतिकाद्यखिलदुःखमोक्षप्रतिबन्धध्वंसकत्वेन सर्वपुमर्थ- दातृवं ध्यन्यते । तस्मात्कलौ बुभुत्सुभिर्नित्यायविरोधेन दश विधनामापराधविधुरं तदेव स्मर्तव्यं सततमिति तत्त्वम् । अत्र रूपकमलंकारः ॥
अथ ‘गच्छ गच्छसि चेत्कान्त तत्रैव स्याजनिर्मम' इत्यादिवद्विरोधिलक्षणया खचेतःप्रत्येव भगवड्यानमाक्षेपालंकारेणोपदिशति- v
रे चेतः कथयामि ते हितमिदं वृन्दावने चारय- |
रे चेत इति । किं तद्धितमियत आह-वृन्दावन इत्यादिपूर्वार्धशेषेण । कोऽपि । एवं चावाङ्मनसगोचरत्वेन तस्याद्वैतव्रद्मकरूपत्वं द्योत्यते । तत्रापि भक्ता- नुग्रहार्थ मायिकलीलाविग्रहनटनात् । नवेति । नूतनघटसंनिभ इत्यर्थः । यद्वा नवानां श्रवणादिनवसंख्याकानां भक्तीनामम्बु जीवनम् ‘आपोमयः प्राणः' इति श्रुतेः । प्राणन मिति यावत् । ददाति तादृशी निभा कान्तिर्यस्येत्यर्थः । एवं च तद्भक्तिरेव कार्येति तात्पर्यम् । वृन्दावने । एतेन भक्तपारवश्यं सूच्यते । वृन्दाया अपि खप- तिरूपेण ब्रह्मैव भजन्त्याः परमभक्तत्वात् । गवां वृन्दं चारयन्। धेनुसंघचारयि- तैत्यर्थः । यद्वा वृन्दस्य देवर्षिपितृमनुष्यतिर्यक्संघस्यावनमग्निहोत्रादिना तत्तदिष्ट- प्रदानेन रक्षणं यत्र तस्मिन्नित्यर्थः । मनुष्याधिकारवाच्छास्त्रस्येति मनुष्यशरीर