पर्थ खानुभवं दृष्ट्वा स्थूणानिखननन्यायेन चिन्तामण्यादिवज्ञानाविधवाञ्छितपूरक त्वमपि तस्य कथयस्तदृढयति–मृद्वीकेत्यादिद्वाभ्याम् ।।
मृद्धीका रसिता सिता समशिता स्फीतं निपीतं पयः |
मृद्वीकेति। हे मदीय जीव। एवं च निरुक्तविशालविषयावलीत्यादिपयचतुष्टय- मात्रानुष्ठितभगवद्भक्तिमहिम्नैव सद्यः स्वस्य सच्चिदानन्ताद्वैतब्रह्मात्मैकप्रत्यकूटस्थख- रूपमात्रतत्त्वविषयकाप्रतिबद्धसाक्षात्कारोदयपूर्वकसकलदृश्यबाधानुभवः संपन्न इति सूचितम् । अन्यथा जीवस्य खपार्थक्यानुभवासंभवात्। त्वया। मृट्ठीका ‘मृद्वीका गोस्तनी द्राक्षा' इत्यमराद्रोस्तनाकारदीर्घद्राक्षाजातिविशेषः । रसितास्वादिता । इह लोक इति शेषः। तथा सिता शर्करा समशिताकण्ठं भक्षिता। तथा स्फीतं विपुलं पयो । दुग्धं निपीतं प्राशितम् । एवं स्वयतेन वर्ग कदाचिद्गतेन। सुधाप्यमृतमपि। अधायि ‘घेट् पाने' इति स्मरणात्प्राशितमित्यर्थः । एवं कतिधा बहुवारं संसारस्यानादित्वा- द्युक्तमेवेदम् । रम्मेति । खण्डितो रतिरभसवशाचुम्बनावसरे कदाचिद्दन्तेनापि क्षत इति यावत् । एतेनैहिकपारत्रिकयावन्मधुरद्रव्याखादानुभवाभावशङ्काशान्तिः सूचिता । अस्त्वेवम् , किं तेनेयत्राह-सत्यमित्याद्युत्तरार्धशेषेण । भवता वया । भवे संसारे भूयो वारंवारम् । भ्राम्यता घरटी(घटी)यन्त्रन्यायेनोवधः पर्याव- तता सतेत्यर्थः । एतेन जीवे सर्वज्ञवाभावात्कथं मया कथनीयमस्ति नास्तीत्यन्य- तरकोटिकमप्युत्तर मिति परास्तम् । कृष्णेत्यक्षरयोः । कृष्ण इति संवुड्यन्तवर्णयोर- पीत्यर्थः । अयं प्रत्यक्षः । एतेन सद्यःसमुच्चारितवर्णालौकिकरसास्वादतृप्तिजन्यव- मुद्गारे द्योत्यते । मधुरिमेति । मधुरिम्णो माधुर्यस्योद्गारस्तृप्त्युत्तरभाविसशब्दोदानो- पप्राणीभूतदेवदत्ताख्यान्तरकण्ठवायुव्यापार इत्यर्थः । ‘उदारः' इति खपपाठ एव । मधुरिम्णो महत्त्वस्योकविशेषणमन्तरापि तद्भिन्नपदैरेव सिद्धत्वात् । क्वचित्कस्मिश्चि- दपि देशे काले वेति यावत् । एतेन तस्य लोकोत्तरखं ध्वन्यते । लक्षित एतल्लक्ष- णलक्ष्यतयानुभूतोऽभूदित्यर्थः । इति सत्यं न तु स्तावकम् । ब्रूहि वदेति योजना। तस्मान्निरुपममेव भगवन्नामस्मरणवैभवमिति भावः । इह प्रतीपविशेषोऽलंकारः ॥
वज्रं पापमहीभृतां भवगदोद्रेकस्य सिद्धौषधं |